पान:केतकी ग्रहगणितम् ।.pdf/54

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

४० केतकी. ज्यया - .९२५ गुणिता जातो भूजः अंगु. - १०।२७ । पुनः भुजवर्ग. १०९।२० छायावर्गः १२७.६९ अनयोरंतरं १८.४९ अस्मान्मूलं ४.३ अथवा अंगु. ४।१८ इयमेव कोटी। - अत्र दिगंशानां दक्षिणत्वाद्भुजोऽपि दक्षिणः । वेधसमयः पूर्वाह्ने वर्तते अतः कोटी पश्चिमाभिमुखी। अथ ग्रहवेधगणितम् । आदौ क्रांतिज्ञानार्थ शरस्पष्टीकरणम् । युक्तायनांशग्रहबाहुराशिप्रतिष्ठितान्यष्टरसाश्विखानि । तद्धीनशत्या निहतस्तुबाणः शतोद्धृतः क्रांन्तिदिशि स्फुटः स्यात् २५ आदौ पंचताराधिकाररीत्याः सायनग्रहमानीय तस्य राश्यादिर्भुजः कार्यः । स यदि क्रमेण ०,१,२,३ राशिमितः स्यात् तदा यथासंख्यं ८, ६, २, ० इमेंऽका गुणका भवंति । सावयवे भुजे सति गुणकोऽनुपातात्साध्यः । यथा भुजे रा. १।१५ प्रमिते गुणकः ४ मितो भवति । शेषं सुगमम् । उदाहरणम् शकवर्षे १८१५ चैत्रशुक्ल १५ शनिवासरे उज्जयिन्यां प्रातःकालिकं ग्रहवेधोपयोगिगणितमिह कुर्मः । सायन भौमः रा. २।२।४, सायन बुधः रा. ०।११।४२, सायन गुरुः रा. १। १।३९, सायन शुक्रः रा. ०।३।३२, सायन शनिः रा. ६।९।२९ एतेषां भुजेभ्यो यथानुक्रम साधिता गुणकाः २, ८,६,८,८ शताच्छोधिता जाताः ९८, ९२, ९४, ९२, ९२ एभिभौमादीनां भूमध्यस्पष्टशरान् ययाक्रम + ५८', + १९७, - ६०, - ८७', + १६२' संगुण्य शतेन विभज्य लब्धाः क्रांतिसंस्कारयोग्यशराः भौमस्य + १७, बुधस्य + १४ ४', गुरोः - ९७, शुक्रस्य - ८०', शनेः + १४७। अत्राधिकचिन्हेन्नोत्तरदिगुच्यते। ऋणचिन्हेन दक्षिणा दिक् । ग्रहाणां क्रांतिः चरपलानि च. युक्तायनांशाचरापमश्च स्पष्टो भवेत्स्पष्टशिलीमुखाढयः क्रांत्यक्षमागाहतिपंचमांशश्चरं पलात्मं गगनेचराणाम् ॥ २६ ॥ उदाहरणम् पूर्वोक्तान् सायनग्रहान् सायनराव प्रकल्प्य साधिताः क्रांतयः भौमस्य + २००३८', बुधस्य + ५०।१,गुरोः + १२०।४', शुक्रस्य + १०।२१'