पान:केतकी ग्रहगणितम् ।.pdf/53

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

त्रिप्रश्नाधिकारः। शंकुच्छायातो तनकालज्ञानम् । क्रांत्यक्षकोटिगुणहतिभक्ता रव्युन्नतांशभुजजीवा। चरशिंजिनीविहीना सा स्यान्नतकालकोणकोटीज्या ॥ २२ ॥ उदाहरणम् । आदौ शंकुच्छायातो अंगु. ११।१८ विलोमविधिना रव्युन्नताशा ४६०.३ साध्याः । एषां भुजज्यां + .७२३ पृथक्स्थापयित्वाऽन्यत्र क्रांत्यक्षयोः कोटीज्ययोर्घातः साधितः + .८७९ । अनेन पृथक्स्थापितां सूर्योनतांशज्यां + .७२३ विभज्य लब्धं + .८२३ । तत उक्तदिवसे नागपुरे चरपलानि -७९ दशभक्तानि जाताश्चरांशा -७.९ एषां भुजज्या -.१३८ इमां पूर्वलब्धेः +. ८२३ विशोध्य जनिता नतकालकोणकोटीज्या +.९६१ अस्या धनः अं. ७४ नतकालकोणकोटी । अतो नतकालकोणांशाः १६ नतकालश्च घ. २।४० इति सिद्धम् । व्यवकलनप्रसंगे 'संशोध्यमानं स्वमृणत्वमेति' इति सूत्रं न विस्मरेत् । BOT दिगंशानयनम् कांतिज्याऽक्षोन्नत्योर्भुजशिंजिन्योर्वधेन रहिता चेत् ॥ अक्षांशोन्नतिकोट्योयाभ्यां भक्ता भवेदिगंशज्या ॥ २३ ॥ उदाहरणम् | अक्षज्या + .३६१ सूर्योन्नतांशज्या + .७२३ अनयोर्धातः +.२६१ अनेन क्रांतिज्या - .३३६ रहिता – .५९७ पृथक् स्थापिता । ततोऽक्षांशकोटिज्या + .९३३, उन्नतांशकोोटिज्या अनयोर्धातेन + .६४५ पथक स्थापितामवशिष्टक्रांतिज्या - .५९७ विभज्य लब्धा दिगंशानां ज्या - .९२५ अस्या धनुर्दिगंशाः -- ६७.७ ऋणत्वाद् दक्षिणदिक्काः । प्रकृतोदाहरणे सूर्यस्य पूर्वकपाले स्थितत्वादेते दिगंशाः क्षितिजे पूर्वबिंदोः सकाशाद्दक्षिणतो गणनीया इति सिद्धम् । अस्मिन् सूत्रे सूर्योन्नतांशान् पूर्ण प्रकल्प्य गणिते कृते औदयिका दिगंशा नाम अग्रा सिध्यति । अभीष्टकाले नलिकावेधार्थ शंकुच्छायाग्रस्य भुजः कोटी च । दिग्भागज्यानिघ्नच्छायांगुलमुखभुजो भवेत्तस्य ॥ वर्गोनाद्भावर्गाद्यन्मूलं सांगुलात्मिका कोटी ॥ २४ ॥ उदाहरणम् । वेधकाले घ. १११० शंकुच्छाया अंगु. ११।१८ दिगंश.