पान:केतकी ग्रहगणितम् ।.pdf/50

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतको. वेदाग्न्यश्विगुणाद् घनीकृतभुजात त्रिंशद्घनाप्न वै हीनश्चेदयुतोन्मिते त्रिभगुणे शेषं भुजज्या भवेत् ॥ ९॥ खत्र्यंशाधिककामुके सति तु तत्कोटीदलज्याकति त्रिज्यार्धेन हरेत्फलेन रहिता त्रिज्येष्टदोया भवेत् । प्रत्यंशं विगणय्य कार्मकगुणान् छायादिकं तैः सुगण काचेगणितं लभेत स तदा लिप्सावधि सूक्ष्मताम् ॥ १० ॥ षष्टया गुणनभजनात् दशभिर्गणनभजनमतीव सुकरं । अतोऽत्र दशांशपद्वत्या सूक्ष्मज्यानयनमुदाहियते । दशांशपद्धतिरपरिचितायां सा मद्रचितज्योतिर्गणितात ज्ञातव्या । उदाहरणम् । अत्र विंशत्यंशानां भुजज्या साध्यते । अभाष्ट धनुः अं. २० राश्यल्पं, अत इदं वेदाग्न्यश्विशरैः संगण्य १०४६८० त्रिंशताविभज्य लब्धं ३४८९.३३ आद्यसंज्ञकं । पुनः, भुजं २० धनीकृत्य ८००० वेदाग्न्यश्चिभिः २३४ संगण्य त्रिंशद्घनेन २७००० विभज्य लब्धं ६९.३३ परसंज्ञकं । आद्यात्परे शोधिते जाता भुजज्या ३४२० । विंशत्यं. शानां इयती भुजज्या दशसहस्त्रमितायां त्रिज्यायां सत्यामुपलभ्यत इति ज्ञेयम् । पचाशदशानां भुजज्याऽपेक्षिता चेत्सा एवं साध्या । पंचाशदंशानां को चत्वारिंशदंशा एषां दलं विंशतिः । विंशत्यंशानां पूर्वोक्तरीत्या साधिता ज्या ३४२० अस्यावर्गः ११६९६४०० पंचसहस्त्रभक्तोजातः । २३३९.२८ न त्रिज्या १०००० रहिता जाता पंचाशदंशानां भुजज्या ७६१ बृहज्ज्याः । खमश्वोरगा वेदसप्मेंदवो वै नवामाश्विनो व्यब्धिरामास्तदने । त्रिपक्षाब्धयः पंचशत्योऽब्धिसप्तेषवो रामवेदर्तवोऽश्वाभ्रशैलाः ॥११॥ षडंगाद्रयोंऽकेंदुनागाः षडंगोरगाः षदखनंदाः खवेदग्रहाश्च । षडंगग्रहाः पंचनागग्रहाः षण्नवांकाः सहस्रं सहस्रांशजीवाः॥१२॥ बृहज्ज्या : । .०००.०८७ । .१७४ । २६९ । .३४२ । .४२३ । .५०० । .९७४ । .६४३ .७०७।.७६६ । .८१९ । ८६६ । .९०६। .९४० । .९६६ । .९८५ । .९९६ । १,००० । एतासामुपयोगः प्रकृतेऽ. धिकारे पाताधिकारे च ।