पान:केतकी ग्रहगणितम् ।.pdf/42

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. गुरोः शीघ्रांकांतरं वर्धमान १५ स्वनवमांशाढ्यं १६।४० द्वाभ्यांभक्तं क. दा २० धनं । आभियंता गुरोमैदस्पष्टा गतिः क. ६।२७ जाता क. १३१४७ शुक्रस्य शीघ्रांकांतरं वर्धमानं ४२ स्वनवमांशान्वितं ४६।४० त्रिभिर्भक्तं क. १५।३३, अनेन युता रविदिनस्पष्टगतिः क.५९।८ जाता शुक्रस्य क.७४।४ १॥ शनेः क्षीयमाणं शीघ्रांकांतरं १२ स्वनवमांशान्वितं १३।२० दलितं जातं ऋणं क. ६।४०, अनेन रहिता शनर्मंदस्पष्टा गतिः क. ११९९ जाता स्पष्टा क. ४।४१, विलोमशोधनात् वक्रा। बुधगतेर्विशेषः। बुधदिनगतिशेध्यं ज्ञार्कमंदस्फुटतिविवरविनिहतं चेत षट्पुराण १८६ विभक्तम् । स्फुटतरमिह तत्स्यात्तेन पूर्वोक्तरीत्या रविदिनगतिलिप्ताः संस्कृता विद्गतिः स्यात् ।। ३७ ॥ उदाहरणम् । पूर्व मासादितं बुधदिनगतिशैव्यं क. ११४।५० ऋणं बुधस्य मंदस्पष्टा गतिः क. २१९।३२ वेश्च क. १९।६ अनयोरंतरेण क. १५६।२६ गुणितं क. १७९६४ षट्पुराणैः १८६ भक्तं च जातं स्फुटतर ऋणं क. ९६।४ अनेन संस्कृता वेर्दिनस्पष्टा गतिः क. ६९।६ जाता बुधस्य स्पष्टतरा गतिः क. ३६।५८ वक्रा. शुक्रगतेविशेषः । षड्भाल्पात् खनृपांशकात् १६० भृगुचलत्केंद्राच्चतुर्पु क्रमादग्रंऽशेषु भृगोगतेश्वलफलं षड्वन्हयोऽष्टाब्धयः। रामांगानि गजाद्रयः कुनिधयस्तकंग्रहाः स्युः कला आभिः सूर्यगतिः स्फुटा विरहिता स्पष्टा गतिः स्याद्भगोः॥३८॥ शीघ्रकेंद्राशाः १६०, १६४, १६८, १७२, १७६, १८०. गतिफलानि क. ३६, ४८, ६३, ७८, ९१, ९६. यदा शुक्रस्य षड्भाल्पं शीघ्रकेंद्रं १६० अंशेभ्योऽधिकं तदाऽशचतुष्कांतर. स्थैरत्रोक्तैगेतिफलैरभीष्टंगतिफलमादाय तत् सूर्यस्य स्पष्टगतौ विशोधितं चेच्छेषं शुक्रस्य स्पष्टतरा दिनगातः स्यात् । उदाहरणम् । शुक्रशीघ्रर्केद्रे १८० अंश. SS