पान:केतकी ग्रहगणितम् ।.pdf/41

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पंचताराधिकारः। शुक्रमांदांकांतरं वर्धमानं १ स्वहरण १ भक्तं जातभृणफलं क. ११०. अनेन संस्कृता शुक्रस्य मध्यमा गतिः क. ९६।८ जाता मंदस्पष्टा क. ९९।८।। शनेर्मादांकांतरं वर्धमानं १ स्वहरेण ५० भक्तं जातमृणफलं क. १, अनेन संस्कृता शनेमध्यमा गतिः क. २० जाता मंदस्पष्टा क. १।१९। 2 ग्रहाणां शीघ्रस्पष्टगतिः । कुजबुधगुरुशुक्राकात्मजानां चलांकांतरामिह निजनंदां ९ शान्वितं भाजितं च । युग ४ रस ६ कर २ रामै ३ लोचनै २ ज्ञस्यदिग् १० नं धनमृणमवबोध्यं वृद्धिहान्योश्चलांके ॥ ३५ ॥ दिनकरदिनभुक्तौ योजयेत् तद् ज्ञभृग्वोस्तदितरखचराणां स्वस्वमंदस्फुटेतौ । ऋणफलबहुलत्वे वैपरित्येन तस्मा. दिनगतिरवशोध्या शेषकं वक्रभुक्तिः ॥ ३६॥ अत्र चलांका नाम शीघ्रांकाः । शीघ्रफलानयने साधितानि गतैष्यशीघ्रांकयोरंतराणि गतिशीघ्रफलार्थं संरक्षणीयानि । तत्र गतशीघ्रांकादेष्यशीघ्रांके गुरुतरे गतिशीघ्रफलं धनं लघुतरे ऋणं भवति । बुधशुक्रयोर्गतिशीघ्रफलं रवेमंदस्पष्टगतौ धनर्णं कृतं चेत्तयोभूमध्ये दृश्या नाम स्पष्ठा गतिः सिध्यति । भौमगुरुशनीनां गतिशीघ्रफलं स्वस्वमंदस्पष्टगतौ धनर्ण कृतं चेत् तेषांमपि स्पष्टा दिनगति सिध्येत् । उदाहरणम् । भौमस्य गतैष्यशीघ्रांकयोरंतरं वर्धमानं ३४ निजनवमांशेन वर्धितं ३८ युगैर्भक्तं जातं गतिशीव्रफलं क. ९।३० शीघ्रांकातरस्य वर्धमानतयेदं धनं । अनेन भौमस्य मंदस्पष्टगति संस्कृय लब्धा भौमस्य स्पष्टा दिनगतिः क. ३८॥३६॥ बुधस्य शीघ्रांकांतरं क्षीयमाणं ६२ दशनिघ्नं ६२० निजनंदाशेन ६९ युतं ६८९ षडभिर्भक्तं जातमृणं क. ११४।५० इदं सूर्यस्य मंदस्पष्ट गतौ क. १९।६ शोधनीयं । परं तु गुरुतया न शुध्यति । अतो विपरीतशोधनालब्धा बुधस्य वक्रा गतिः क. १५/४४।