पान:केतकी ग्रहगणितम् ।.pdf/38

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

AND केतकी. अथ शीघ्रकर्णानयनम् । भौमस्य मध्यममंदकर्णः १५२ शताढयः २५२ द्राक्श्रवणांकेन नाम शीघ्रकोकेन ५६ राहतो जातो भौमशीघ्रकर्णः १९६॥ बुधस्य मध्यममंदकर्णः ३९ शताढ्यः १३९ शीघ्रकों केन ७८ रहितो जातो बुधशीघ्रकर्णः ६१ ॥ गुरोर्मध्यममंदकर्णः १२० शतान्वितः १२० शीघ्रकोंकेन ७ रहितो जातो गुरोः शीघ्रकर्ण: ६१३ । शुक्रस्य मध्यममंदकर्णः ७२ शतान्वितः १७२ शीघ्रक)केन ५ रहितो जातः शुक्रस्य शीव्र कर्णः १६७ । शनेमध्यममंदकर्णः ९५४ शतान्वितः १०५४ शीघ्रक)केन २०० रहितो जातः शनेः शीघ्रकर्णः ८५४ । भौमबुधयोः शीघ्रफलयोः स्पष्टीकरणम् । को शीघ्रफलं स्वकीयचलकर्णनं स्वमध्यश्रवोहीनस्पष्टमृदुश्रवोऽन्वितचलश्रुत्या हृतं स्यात्स्फुटम् । बौधं तु स्फुटमंदकर्णनिहतं मध्याख्यकर्णाहृतं स्पष्टं स्यादुभयोश्च मंदफलवैपुल्याद्विशेषोऽह्ययम् ॥ ३१॥ आदौ भौमशीघ्रफलं शीघ्रकर्णेन संगुण्य तदादिमं वदेत् । तदनंतर भौमस्य स्फुटमंदकर्णस्य शीघ्रकर्णस्य च योगं कृत्वा तस्मात् भौममध्यममंदकर्ण विशोध्य जनितं शेषं परं वदेत् । आदिमात्परेणभक्ताल्लब्धंफलमेव सूक्ष्म भौमशीव्रफलं भवति । बुधशीघ्रफलं तु स्फुटमंदकर्णेन गुण्यं मध्यममंदकर्णेन भाज्यं । फलितं बुधस्य सक्ष्मं शीघ्रफलं स्यात् । उदाहरणम् | भौमस्य शीघ्रफलं अं. ३०।५।६० शीघ्रकर्णेन १९४ गुणितं सज्जातमादिमं अं. ५८९९।३।२०। पुनः स्फुटमंदकर्णः १५८ शीघ्रकर्णः १९६ अनयोर्योगः ३५४ अस्मान्मध्यममंदकर्ण १५२ विशोध्य जनितं शेषं २०२ परसंज्ञकम् । अनेन २०२ आदिमं अं. १८९९।३।२० विभज्य लब्धं अं. २९।१२।११। इदमेव भौमस्य सुक्ष्म शीघ्रफलम् । पूर्व शीघ्रफलस्य ऋणत्वादिदमप्यृणम् ।