पान:केतकी ग्रहगणितम् ।.pdf/32

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. कुजादिक्रमेण केंद्रच्युतयः १४, ८, २९, ३, ६४ रखेः १३ स्पष्टमंदकर्णानयने सूत्रम् । स्वमांदाधयुक् केंद्रकोटीज्यकाघ्न्याश्युतस्त्रिज्यकाप्त्या युतो नक्रषडभे। विहीनोऽन्यथा मध्यमो मंदकर्णः कृतः सन्स एव स्फुटत्वं दधाति ॥८॥ उदाहरणम् । भौमस्य राशिद्वयमिते मंदकेंदे तस्य मंदकर्णः कियानिति प्रश्नेराशिद्वयमिते मंदकेंद्रे मंदफलं ऋणं अं. ८।४२ अस्य दलं ऋ. अं. ४।२१ अनेन मंदकेंद्र अं. ६० संस्कृत्य लब्धं अं. ५५।३९ अस्य कोटी अं. ३४।२१ ज्या ६७ अनया भौमकेंद्रच्युतिः १४ गुणिता ७९८ शतमितत्रिज्यया भक्ता सती लब्धं फलं ८ इदं केंद्रस्य मकरादित्व द् धनमतोऽनेन संस्कृतो भौमस्य मध्यममंदकर्णो जातः स्फुटमंदकर्णः १६० । इष्टं चेत् भौमेतरग्रहाणामप्यनया रीत्या स्पष्टमंदकर्णानानयेत् । परं भौमबुधाभ्यां विनाऽन्यग्रहाणां स्पष्टमंदकर्णा अनवश्या इत्येतस्य कारणमुच्यते । भौमज्ञकक्षाच्युतिगौरवेन तत्स्पष्टमध्यश्रुतितारतम्यम् महत्ततस्तत्स्फुटमंदकर्णान्पूर्वोक्तरीत्या विगणय्य वच्मि ॥९॥ शेषग्रहाणां च्युतिलाघवेन स्पष्टां श्रुति मध्यसमां प्रकल्प्य स्पष्टेषुबिंबानयनप्रसंगे मध्यश्रवोभिर्गणितं प्रकुर्यात् ॥ १० ॥ भौमवुधयोः स्पष्टमंदकर्णाः। त्रिधा षट्कलाः पंचभूपाश्चतुःषधरा दोनृपाः खाष्टयोऽष्टेषुचंद्राः । रसाक्षस्थिरा वेदपंचेदवश्व धरापंचचंद्रा नवेंद्रा रसेंद्राः ॥११॥ युगेंद्रा यमेंद्राः खशका नवाग्निस्थिरा नागविश्वे द्विधा भौमकर्णाः । द्विधा सप्तवेदा द्विधा षट्ममुद्रा द्विधा पंचवेदाश्च वेदार्णवाश्च ॥ १२ ॥ त्रिवेदा द्विवेदाः खवेदा नवत्रीण्यथाष्टानयोऽश्वाग्नयः पंचरामाः । त्रिरामा रदा दोर्गुणा भूगुणाश्च कुरामाः क्रमान्मंदकर्णा बुधस्य॥१३॥ भौमस्पष्टमंदकर्णाः । १६६,१६६,१६६,१६५,१६४,१६२,१६०,११८ १५६,१५४,१५१,१४९,१४६,१४४,१४२,१४०,१३९,१३८,१२८,। बुधस्य मंदस्पष्टकर्णाः ४७, ४७, ४६, ४६,४५,४५, ४४, ४३, ४२, ४०, ३९, ३८, ३७, ३५, ३३, ३२, ३२, ३१, ३१, ।