पान:केतकी ग्रहगणितम् ।.pdf/24

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. रा. ६।९।१२।१६ अभविष्यात् तदास्य षड्भाल्पीकरणाल्लब्धोऽयमेव संस्कारः क ६।१६ धनमभविष्यत् । तिथिसंस्कारश्लोके अंकानां या स्वर्णता निगदिता सा मेषादिराशिषटे तिथिकेंद्रे सत्येव सत्या । तुलादिषट्रे तु तेषां चिन्हव्यत्यासः कार्य इति यावत् । मध्यमचंद्रे मंदफलसंस्कारः । वियच्च कुरसा धरादिनकरा गजाश्वस्थिरा धरागुणयमा नगाचलकरा कलापावकाः । नगाब्धिदहना हयतुदहना गजाचलगुणा रसाचलगुणा गुणांगदहना नवाग्न्यग्न्ययः ॥२१॥ त्रिशून्यदहना रसाक्षयमला धराविंशति गंजाद्विशशिनः खसप्त खमितींदुकेंद्रे फलम् । तुलादिरसभे धनं वितरथा क्षयः स्यादिदं पुरोक्तमपि शिष्यविस्मृति भयात्पुनः सूचितम् ॥ २२ ॥ चंद्रस्य षड्भाल्पे मंदकेंद्रेऽशदशकेषु स्थितं मंदफलं कलात्मकं क्रमेण ०,६१,१२१,१७८,२३१, २७७,३१६,३४७,३६७,३७८, ३७६,३६३, ३३९,३०३,२५६,२०१,१३८,७०,० विक्षेपवृत्ते स्पष्टचंद्रः। च्युतितिथिफलयुक्तश्चंद्रमाः स्वोच्चहीनो भवति हि मृदुकेंद्रं तद्भवा मांदलिप्ताः । च्युतितिथिफलयुक्तेऽब्जे युताश्चेत्स एव निगदितसमये स्वक्षेपवृत्ते स्फुटः स्यात् ।। २३ ॥ उदाहरणं । सूर्योदये मध्यमचंद्रः रा. १।१२।०।२४, च्युतिफलं ऋ. क. ५१।२४, तिथिफलं ऋ. क. ६।१६। आभ्यां संस्कृतो जातो निजमध्यमः रा. ५।११।२।४४, अयं स्वोच्चेन रा. ७७।१९।३६ रहितः सन् यच्छेषं तन्मंदकेंद्रं रा. १०।३।४३१८, अस्य षड्भाधिक्यादिदं चक्राद्विशोध्य कृतं षड्भाल्पं रा. १।२६।१६।५२, अस्माल्लुब्धं चंद्रमंदफलं धनं अं. १।१।२२, अनेन च्युतितिथिफलयुक्तश्चंद्रः रा. ५।११।२।४४ संस्कृतः सन् जातः स्वक्षे. पवृत्ते नाम स्वीयकक्षायां मंदस्पष्टः रा. ५।१६।४।६