पान:केतकी ग्रहगणितम् ।.pdf/21

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

स्पष्टाधिकाराः। मत्या तैः पंचदशघटिकाः संस्कृताश्चेत् दिनार्धं भवति । दिनाधोनास्त्रिंशद्घटिका रात्रिमानं स्यात् । प्रकृतोदाहरणे सायनरविरुदग्गोले तिष्ठतीति चरपलानि धनं अतो जातं दिनार्धं घ. १५।१२ निशाध च. घ. १४॥४॥ बागलकोटे पलभा ३३० इषुघ्री १७/३० पुनः पलमावर्ग: १२।१५ अस्य दशमलवः १।१३ इमं पंचगुणपलभाया विशोध्य जनित शेषं बागलकोटे अक्षांशाः १६।१७ एत उदीच्या यतो भारतवर्षे निरक्षदेशादुत्तरतस्तिष्ठति। - अथ विलोमविधिनाक्षांशेभ्यः पलभानयनं । तत्वारयः ६२५ दश गुणपलांशैः १६२।६० हीनाः ४६२।१० एभ्योवर्गमूलं २२।३० पंचविंशतेरपास्य जनितं शेषमेव पलभा ३।३०। अस्या वर्गः १२।१५ द्वादशवर्गः १४४।० अनयोर्योगात्पदं १२।३० बागलकोटे पलकर्णः । इयमक्षांशपलभयोक्पिरिणमनपद्धतिर्द्विषष्टिपलांशावधि पंचविंशतिपलभावाध वा सक्ष्मा । एतदूर्व स्थूला भवितुमारभते । भरतखंडेऽक्षांशाः कुत्रापि षटत्रिंशदधिका न संति तेन भरतखंड इयं रीतिः प्रशस्ता । परं द्विपांतरे यत्राक्षांशा द्विषष्टिंभागेभ्योऽधिका भवंति तत्र पलभा ज्ञातुमिष्टा चेत् अक्षांशज्या द्वादशगुणा अक्षांशकोटीज्यया भक्ता सूक्ष्मा पलभा स्यात् । इति सूर्यगणितम् । अथ चंद्रगणितम् । मध्यमचंद्रस्याभीष्टेग्रामे स्पष्टार्कोदयसमये योग्यतासिध्यर्थ रेखांतर-चर-भुजांतर- उदयांतरेति चत्वारः संस्कारा अवश्याः । उदयांतरसंस्कारः श्रीगणेशदैवज्ञैरुपेक्षितः । अस्मात्कारणात् स्पष्टार्कोदयकालिके मध्यमचंद्रे कदा कदा पंचकलामितो व्यभिचारः प्रजायते । अतोऽयमुदयातरसंस्कार उपेक्षितुं नार्हति । रेखांतरसंस्कारः । रेखाग्रामविशेषोत । बागलकोटे रेखांतराभावेन तज्जायमानसंस्कारस्याप्यभावः । चरसंस्कारः । मध्येदाविति । प्रकृतोदाहरणे चरं १२ द्विगुणं २४ नवोधृतं जातं कलादि २।४०, इदं रविचरवदृणम् । भुजांतरसंस्कारः । भूपाप्तमिति । रविफलं धनं क. ११४१५१ षोडशभिभक्तं जातं क. ७।११, इदं रविफलाद्विलोमं नामात्र ऋणम् । अथ चंद्रे उदयांतरसंस्कारः। शून्यं द्वयं त्रीणि शराश्चतुर्धा बेदा द्वयं खं युदयांतराख्या।