पान:केतकी ग्रहगणितम् ।.pdf/20

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. सूर्यस्य बिंबं लंबनं च । सप्ताक्ष ५७ लिप्तोनितसूर्यभुक्तेः पादेन युक्ताः सदलाः कुरामाः ३११३० । बिंबं भवेतिग्मरुधराजे तलंबनं नंद ९ विलिप्तिका वै ॥११॥ उदाहरणम् । सूर्यस्य स्पष्टा दिनगतिः क. ५९.१ सप्तपंचाशता ९७ रहिता क. २.१ अस्याश्चतुर्थांशः क. ०.५ अनेन सार्धेकत्रिंशति ३१.५ युतायां जातं रविबिंब क. ३२.० । क्षितिजलग्ने सूर्ये तलंबनं नव विकलाः । अवांतरे स्थले तन्नतांशज्यामनुभिद्यते ।। दिनमानं पलभातोऽक्षांशानयनम् । गोलौ स्तः सौम्ययाम्यौ क्रियघटरसभे खेचरेऽथायने ते नक्रात्कीटाच्च षड्भेऽथ चरपलयुतोनास्तु पंचेंदु १५ नाडयः । घस्रार्ध गोलयोः स्यात्तदयुतखगुणाः ३० स्यानिशाध तथाक्षच्छायेषुघ्न्यक्षभायाः कृतिदशमलवोना पलांशा उदीच्याः ॥१२॥ अक्षांशेभ्यः पलभानयनम् । तत्वारयो ६२५ दिग् १० नपलांशहीनास्तेभ्यः पदं तेन विवर्जितानि । तत्वानि २५ वै स्युः पलभांगुलानि च्छायार्कवर्गंक्यपदं हि कर्णः ॥ १३ ॥ द्विषष्टि ६२ भागावधि युक्तमेतस्कर्तुं तवं पलशिंजिनीघ्राः । अक्षांशकोटीगुणसंविभक्ता अर्का १२ भवेयुः पलभांगुलांनि ॥ १४ ॥ मेषादि राशिषटुं उत्तरगोलः, तुलादिराशिषष्टं दक्षिणगोलः । मकरादि षटे उदगयनं, कर्कादिराशिष दक्षिणायनं । अत्रोक्ता या मेषादिगणना सा कस्माच्चिदपि संपातात्कर्तुं युज्यते, क्रांतिपातात्कक्षापाताद्वा । उदग्गोले क्रांतिः शरोवा उत्तरदिक्क; दक्षिणगोले दक्षिणः । सायनरवावुत्तरगोले वर्तमाने चरपलानि धनं, अन्यथा ऋणमिति अर्का