पान:केतकी ग्रहगणितम् ।.pdf/16

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. प्रहाणां मध्यमदिनगतयः। गोक्षा गजा १९८ रविगतिः शशिनोऽभ्रगोश्वाः पंचानयो ७२०१३५ऽथ पडिलाब्धय ६।४१ उच्चभुक्तिः । राहोस्वयं कुशशिनो २११ऽमृज इंदुरामास्तकांश्विनो ३१।२६ ज्ञगतिरक्षजिना रदाश्च २४५॥३२॥२९॥ बाणा वियत् ५।० सुरगुरोरथ षड्ग्रहाश्च नागा ९६।८ भूगोः शनिगतिस्तु कलाद्वयं २ वै। सूर्योदयोद्तघटीनगतिः खषड् ६० हृत प्रातर्ग्रहेण सहिता खग इष्टकाले ॥ ३० ॥ इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यामंकविवृतौ मध्यमाधिकारः प्रथमः ॥ १ ॥ अथ स्पष्टाधिकारः । तत्रादौ मंदकेंद्रं मंदफलस्य धनर्णत्वं फलानयनरीतिश्च । मंदोचोनितखेचरो निगदितो मंदाख्यकेंद्रं बुधैः केंद्रे मेषतुलादिगे ऋणधनं मंदं फलं स्यात्क्रमात् । षडाश्यभ्यधिकांतरं यदि भवेत्संशोध्य चक्राच्च तत् षड्भाल्पं करणीयमत्र गणकैः केंद्रं फलावाप्तये ॥१॥ दशद्भदलाल्पकेंद्रभागप्रमितोंकः प्रगतस्तदूनितष्यात्। परिशेषगुणाद् दशाप्तियुक्तः कलिकात्म फलमिष्टसज्ञकं स्यात् ॥२॥ निजेन मंदोचेन रहितो ग्रहो मंदकेंद्रमित्युच्यते । मंदकेंद्रे मेषादिराशिषष्टे सति मंदफलमृणं, तुलादिराशिषट् सति धनं । सूर्येतरग्रहाणां चंद्रभौमादीनां मंदकेंद्रमानीय तल्लब्धमंद फलस्य धनर्णत्वं पूर्वोक्तवन्निर्णयेत् । मदफलस्योपचयापचयौ मंदकेंद्रस्य राशिषट्रेन संगच्छेते । अत एव यदि मंदकेंद्रं राशिषटादधिकं भवेत्तदा तत् द्वादशराशिभ्योऽपनीय यत्षड्भाल्पमवशिष्येत तेन मंदफलमानयेत् । मंदकेंद्रस्य षड्भाल्पत्वे तद् द्वादशराशिभ्योऽपनयनमप्रासांगकमितिकथनमनवश्यम् । एवं शीघ्रकेंद्रमपि फलानयनप्रसंगे षड्भाल्पं करणीयम् ।