पान:केतकी ग्रहगणितम् ।.pdf/15

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

मध्यमाधिकारः। अथेष्टग्रामे मध्यमार्कोदये मध्यमग्रहानयनार्थ सूत्रमूच्यते । क्षेपश्चक्रहतध्रुवेण सहितोऽहःसंघगत्यन्वितो बीजप्रस्फुटितश्च मध्यमखगः स्यान्मध्यमार्कोदये। रेखाग्रामविशेषयोजनामितिव्यंशोन्मिता लिप्तिका ग्रामे प्रागपरे विधाटणधनं कार्या गते!रवात् ॥ २८ ॥ क्षेपकः; चक्रनिघ्नध्रुवकः, अहर्गणभवा गतिः, बीजसंस्कारः एषां चतुणां योगसम उज्जयिनीरेखायां मध्यमार्कोदयसमये मध्यमग्रहः स्यात् । अभीष्टे ग्रामे रेखाया बहिः स्थिते सति रेखांतरयोजनानां त्र्यंशोन्मिता कला मध्यमचंद्रे धनर्ण कार्याः । उज्जयिनीरेखातो यदीष्ठग्रामः पूर्वतस्तिष्ठेत् तदा रेखांतरभवकला ऋणं । यदि पश्चिमतस्तदा धनमिति ज्ञेयम् । उदाहरणार्थ नागपुरं गृह्णाम । नागपुरं रेखायाः पूर्वतः २२ योजनांतरे तिष्ठति । अतस्तत्र चंद्रस्य रेखांतरसंस्कारः सर्वदा सत्र्यंशकलासप्तकं ऋणं भवति । चंद्रेतरग्रहाणां गत्यल्पत्वेन रेखांतरप्रयुक्ता गतिरुपेक्षणीया । सल्यामपेक्षायां ग्रहस्य दिनगतिकला गोक्षागजा इति पद्येन वक्ष्यमाणा रेखांतरयोजनैर्गुण्या भूपरिधियोजनैर्भाज्याः । लब्धाः कलाः प्रागुक्तवद ग्रहे धनर्णं कार्याः । चंद्रोच्चराहूणां बीजानयनं संप्रत्यनपेक्षितमिति प्रागेवोक्तम् । गुरुशन्योबीजं प्रत्यब्दं सकृत्साधितं चेद्वर्षयावदुपयोगि स्यात् । चंद्रेतरग्रहाणामुच्चपातानामहर्गणभवागतिरल्पत्वादुपेक्ष्या। अतश्चक्रारंभे साधिता उच्चपाताश्चक्रांतंयावत् स्थिरा इति मंतव्यं । शुक्रोच्चं विना निखिलान्युच्चानि तथा सर्वे ग्रहाश्च पूर्वाभिमुखं व्रजति । अतस्तेषां शकवर्षात् १८०० प्राक्च गतिर्ऋणं, अग्रिमचक्रगतिर्धनं । शुक्रोच्चस्य पातानां च प्राग्गतिर्धनं, अग्रगतिणं । उदाहरणम् । शा. श. १८१५ वर्षे चैशुक्रक्लपूर्णिमायां शनिवासरे मध्य. मार्कोदये मध्यमग्रहानानय । सूर्यस्य क्षेपकः रा. ११।१९।५।०, चक्रं ० अतश्चक्रनिघ्न ध्रुवोऽपि०, अहर्गणभवारविगतिः रा. ११।२८।८।२०, बीजं० एतेषां योग एव उक्तदिवसे मध्यमार्कोदये. मध्यमो रविः रा. ११।१७।१३।२० एवं हि चंद्रः रा. ६।१२।१२।१५, चंद्रोच्चं रा. ७/७।१९।३६, राहुः रा. १०।७।१९।३०, भौमः रा. १।२९।१९।३८, बुधः रा. ४।२६।१४।०, गुरुः रा. ०।११।१।२८, शुक्रः रा. ११।०।१९।५०, शनिः रा. ५।१०।१६।९१।