पान:केतकी ग्रहगणितम् ।.pdf/11

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

मध्यमाधिकारः। सप्ता ७ क्षिनेत्राणि २२ यमेंदवश्व १२ शैलाग्नयः ३७ सूर्यसुतध्रुवः स्यात् ।। चक्रे दिनान्यभ्रयुगांकषट् ६९४० स्युस्तज्जातभुक्तध्रुवकोत संज्ञा ॥ १२ ॥ पंचाक्षिपक्षाः २२५ कुयमानय ३२१ श्व सप्तेंदुचंद्रा ११७ रसभास्करा १२६ थ। सार्धाष्टपक्षा २८३ गुणशून्यबाणा-५०३ रव्यादिखेटोच्चगतेविलिप्ताः ॥ १३ ॥ खं सूर्यपातो गुणरामवेदा ४३३ गोपक्षचंद्राः १२९ कृतसप्तपक्षाः २७४ । गुणांगरामा ३६३ यमबाणरामाः ३५२ श्वके कुजात् पातगतेविलिप्ताः॥ १४ ॥ मध्यमगतिदिक् । शुक्रस्य तुंगेन विनाऽखिलानि तुंगानि खेटाश्च पुरःसरंति । पातास्तस्था भार्गवतुंगदेशः सदा विलोमं गगने व्रजति ॥ १५ ॥ अथ ग्रहाणामहर्गणभवा गतिः । स्वखनग ७० लवहीनो धुव्रजो भास्करः स्यात् खनृप १६० हतगणोनो लिप्तिकास्वंशकाद्यः । गणमनु १४ हतिरिंदुः स्वाद्रिभू १७ भागहीनः खतिथि १५० हृतगणोनो लिप्तिकास्वंशपूर्वः ॥ १६ ॥ नव हृतदिनसंघश्चंद्रतुंगं लवाद्यं . खलु शररस ६५ भक्तधुव्रजोपेतलिप्तम् । नवकुभि १९ रिषुवेदै ४५ र्घस्रसंघाद्विधाप्तात्फललवकलिकैक्यं स्यादगुश्चक्रशुद्धः ॥ १७ ॥ दिग् १० नो द्विधा दिनगणोंऽककुभि १९ स्त्रिशैलेभक्तः फलांशककलाविवरं कुजः स्यात् । त्रिन्नाद्गणाधमयमा २२ प्तफलं गृहायः खाभ्राद्रि ७०० हृद् युगणभागयुतो बुधः स्यात् ॥ १८॥