पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१२२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्र० ४ सापिंडयनिर्णय. स्मात् द्वन्द्वादनेककन्यानामपिसंभवादत उक्तं यद्यपीति एकस्यद्वन्द्वस्वस्युरित्यन्तेनशङ्का- द्वयानुवादः । इहद्वन्द्वसंख्यायांतुशब्दस्तद्विषये एकस्मादितिसामर्थ्यलयंततश्च प्रथमशङ्कानिवृत्त्यर्थः साम्यादित्यनंतरं गणनासौकर्यायजन्यकन्याभेदेन जनकद्वन्द्वेभेदमारोप्यज- नकद्वन्द्वेकेनच जन्यास्वभेदमारोप्यसङ्ख्याद्वयोपपत्तिरित्याशयः । उक्तद्वात्रिंशत् द्वन्द्वा नांमध्ये एकद्वन्द्वकुले उद्बोदुः सपिण्डकन्यानां त्रिषष्ठिरूपामवान्तरसंख्यां तावदाहएक- स्मादिति । प्रथममेकं मिथुनं ततः पुत्रः कन्याचेति द्वन्द्वं द्वितीयेस्थाने ततः प्रत्येकं ताभ्यां कयाचित् केनचिन्मिथुनभावंगताभ्यांपुत्रः कन्याचेति द्वन्द्वद्वयं तृतीयेततो द्वन्द्वद्वयात्त- यैवरीत्या द्वन्द्वाष्टकंपंचमे ततोष्टकात्तेनैव प्रकारेणषोडशद्वंद्वानिषष्ठे तेभ्यः षोडशेभ्यः अनेनैव प्रकारेणद्वात्रिंशत् द्वन्द्वानि सप्तमे स्थानेइति द्वितीयस्थानप्रभृति षष्ठपर्यन्तमेकत्रिंशत् द्वन्द्वा- न्तर्गताएकत्रिंशत् कन्याः सप्तमस्थानगतद्वात्रिंशत् द्वन्द्वान्तर्गताभिः तावतीभिः कन्याभिः त्रिषष्ठिः संपद्यते । इयंसंख्याग्निऋतवः इतिपदेनाभिधीयते । अग्नयस्त्रयः ऋतवः षट् गणकरीत्या प्रातिलोम्येनाङ्कपक्षे एतत्संपत्तेः पूर्वोक्तद्वात्रिंशत् द्वन्द्वेषुप्रत्येकत्रिषष्ठयङ्गीका- रेण पितृवंशेषोडशभिरधिकाद्विसहस्री कन्यानांसपद्यते. इयं संख्या रसैकखदृशः इतिपदे- नाभिधीयते रसाःषट् खंशून्यं दृशौद्वउत्तरीत्या २०१६ ईदृशाङ्कसिद्धेः वरस्य मातृवंशे उक्त- रीत्यैव आरंभकद्वन्द्वसंख्योपन्यासपूर्वकं कन्यानांपंचोत्तरसंख्यांवक्तुमाह मातुरिति । अत्रा- पिवरः प्रथमे स्थाने तस्यपितरौद्वितीयेमातुः पितरौतृतीयेद्वन्द्वमेकं तयोः प्रत्येकं जनकद्वन्द्व चतुर्थेतद्घटकानांचतसृणांव्यक्तीनांप्रत्येकं जनकद्वन्द्व चतुष्टयंपञ्चमे एतेषांसप्तद्वन्द्वानां- मध्ये एकैकान्वये पञ्चदशसापंडाः कन्या भवंति यत्किचिदेकं द्वन्द्वं कूटस्थं प्रथ- मे स्थाने ततः पुत्रो दुहिताचेतिद्वन्द्वद्वितीये प्रत्येकं ताभ्यां जातइन्द्वयुगं तृतीये ततः पूर्वोक्तरीत्या द्वन्द्वतुत्रष्टयं चतुर्थे ततः तयैवरीत्या इन्वाष्टकं पञ्चमे एवं पञ्चदशद्वन्द्वप्रतिष्ठाः पञ्चदशकन्याः संपद्यन्ते इयं संख्या शरक्षोण्यपदेनाभिधीयते शराः पञ्च क्षोण्येकेति उक्त- सप्तइन्द्वेषु प्रत्येकं पञ्चदश संख्याङ्गीकारेच पंचोत्तरशतसंख्यासंपत्तिः साचशराम्रविधवः इत्यभिधीयते शराः पञ्च अभ्रं शून्यं विधुरेकइति । कुलेतिपञ्चम श्लोके पूर्वोत्क्तपितृवंशं गतायाः षोडशाधिकद्विसहस्र संख्यायाः मातृवंशगतयापंचोत्तरशतसंख्यथा मेलनेनमहासंख्या एकविंशतिसहितशताधिकद्विसाहस्त्री रूपोच्यते । हिमांशुदृग्धरादृशः इति हिमांशुरेकः दृशौबेधरैकादृशौधे उक्तरीत्या २१२१ ईदृशाङ्कसिद्धेः ततश्चैतावत्यः कन्याः कुल- यगताः मुख्यकल्पेन विवाहकर्माण वर्जनीयाइत्यर्थः -- ( पाहा संस्कारकौस्तुम प १७८ पृ. २. )