पान:सूर्यनमस्कार एक साधना.pdf/३६०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः।।१०।। हरिदश्वः सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान्। तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान्।।११।। हिरण्यगर्भः शिशिरस्तपनोभास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ||१२|| व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः। घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ।।१३।। आतपी मण्डली मृत्युः पिंगलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ।।१४।। नक्षत्रग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।१५।। नमः पूर्वाय गिरये पश्चिमायाद्रये नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।१६।। जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ।।१७।। नम उग्राय वीराय सारंगाय नमो नमः । नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।१८।। तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ||२०|| तप्तचामीकराभाय वह्न्ये विश्वकर्मणे। नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे।।२१।। नाशयत्येष वै भूतं तमेव सृजति प्रभुः । सूर्यनमस्कार एक साधना ३१९