पान:वैदिक तत्वमीमांसा.pdf/234

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य २२९ दृश्यमानं, प्रज्ञावाद्भः संभाविततमैः शिल्पिभिः मनसा अपि आलोचयितुं अशक्यं सत्, कथं अचेतनं प्रधानं रचयेत् । लोष्ट-पाषाणादिषु अदृष्टत्वात् । मृदादिषु अपि कुंभकारादिअधिष्ठितेषु विशिष्ट-आकारा रचना दृश्यते, तद्वत् प्रधानस्य अपि चेतन–अन्तर-अधिष्ठित्व-प्रसंगः । न च मृदादिउपादान-स्वरूप-व्यपाश्रयेण एव धर्मेण मूल-कारणं अवधारणीयं, न बाह्य-कुंभकारादि-व्यपाश्रयेण, इति किंचित् नियामैकं आस्ति । न च एवं सति किंचित् विरुध्यते, प्रत्युत श्रुतिः अनुगृह्यते चेतन-कारण-समर्पणात् । अतः रचनाअनुपपत्तेः च हेतोः न अचेतनं जगत् कारणं अनुमातव्यं भवति ....। । न हि बाह्य-आध्यात्मिकानां भेदानां सुख-दुःख मोह आत्मकतया अन्वयः उपपद्यते । सुखादीनां च अन्तरत्वप्रतीतेः, शब्दादीनां च अतद्रूपत्व-प्रतीतेः, तत्-निमित्तत्वप्रतीतेः च । शब्दादि-अविशेषे अपि च भावना-विशेषात् (१) ननु दृष्टान्त-धर्मिणि अचेतनं तावत् उपादानं दृष्टम् । तत्र चेतन-प्रयुक्तत्वे दृष्टे अपि तत्-प्रयुक्तत्वं बहिः-अंगत्वात् अप्रयोज़कं, अचेतनत्वमात्रं उपादान–गतं अन्तरंगत्वात् प्रयोजकम् ॥ ( आनंदगिरि ) (२) एवं अपि चैतन--प्रयुक्तत्वं न अभ्युपेयेत, यदि प्रमाणअन्तर-विरोधः भवेत् , प्रत्युत श्रुतिः अनुगुणतरा अत्र इति आह-' न च एवं सति' इति ॥ (वाचस्पति) किंच मृदादि-गतचेतन-प्रयुक्तत्वस्य जगत्-प्रकृतौ अनुपगमः मान-अन्तर-विरोधात् वा तत्-अनुग्रह–अभावात् वा इति विकल्प्य आद्य दूषयति- न च एवं ' इति । मृदादि-लौकिक-प्रकृतिषु दृष्ट-चेतन-प्रयुक्तत्वस्य जगत्-प्रकृतौ अभ्युपगमे सति इति यावत् । द्वितीयं प्रत्याह- प्रत्युत इति ।। (:आनंदगिरि ) । (३) यत् यत-निमित्तं न तत् तत्-आत्मकम् ॥ (आनंदगिरि )