पान:वैदिक तत्वमीमांसा.pdf/218

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३१९ वैदिक तत्त्वमीमांसा चैतन्य-स्मृति-आदयः । अपि च सति हि तावत् देहैं। जीवत-अवस्थायां एषां भावः शक्यते निश्चेतं; न तु असति अभावः । पतिते अपि कदाचित् अस्मिन् देहे देह-अन्तरसंचारेण आत्म-धर्माः अनुवर्तेरन् । संशयमात्रेण अपि परपक्षः प्रतिषिच्यते । किं-आत्मकं च पुनः इदं चैतन्यं मन्यते, यस्य भूतैर्य : उत्पत्ति इच्छति इति परैः पर्यनुयोक्तव्यः । न हि भूत-चतुष्टयव्यतिरेकेण लोकायतिकः किंचित् तत्त्वं प्रत्येति । यत् अनुभवनं भूत-भौतिकांनां तत् चैतन्यं इति चेत् । तर्हि विषयत्वात् तेषां न तत्-धर्मत्वं अश्नुवीत, स्व-आत्मनि क्रिय-विरोधात् । न हि अग्निः उष्णः सन् स्व-आत्मानं दहति । न हि नटः शिक्षितः सन् स्व-स्कन्धं अधिरोक्ष्यति । - (१) न तावत् तव अदर्शनं अंभावं-निश्चायक, प्रत्यक्षस्य एवं प्रामाण्यात् । मम तु आत्मनः देह-अन्तर-संचारात् तत्-धर्म-दृष्टिः इति संदिह्यते । तावत्-मात्रेण चैतन्यादीनां देह-धर्मत्व-असिद्धिः । आवयोः उभयोः अपि निश्चित-अन्वयादेः एव साधकत्व-विवाद इति भावः ॥ ( आनंदगिरि) (२) तत् किं भूत-अतिरिक्त तत्त्वं उत रूपादिवत् भूत-धर्मः ॥ ( गोविंदानंद ) | ( ३ ) धर्म-धर्मिणोः तादात्म्य-अभेद-पक्ष आलंबतें-' यत् इति । भूत-परिणामत्वात् चैतन्यस्य रूपादिवत् भूतेभ्यः अर्थअन्तरत्व-अभावात् न व्यतिरेक-आपत्तिः इति भावः ॥ (आनंदगिरि) (४) भूत-परिणामत्वं चैतन्यस्य रूपादि-वैषम्य उक्त्या प्रत्युक्तं, इति मन्वानः दोष-अन्तरं आह-* तत्' इति ॥ (आनंदगिरि ) देह-आत्मक-भूतानां चैतन्यं प्रति विषयत्वात् , कर्तृ-कर्मचिराधेन विषयस्य कर्तृत्व-अयोगात्, न भूत-कर्तृकत्वं चैतनस्य इत्यर्थः ॥ ( गोविंदानंद )