पान:वैदिक तत्वमीमांसा.pdf/219

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२१३ शंकराचार्य आणि रामानुजाचाय न हि भूत-भौतिक-धर्मेण सता चैतन्येन भूत-भतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्व-रूपं पर-रूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्य-आध्यात्मिकानि भूत-भौतिकानि चैतन्येन । अतः च यथा एव अस्याः। भूत भौतिक-विषयायाः उपलब्धेः भावः अभ्युपगम्यते, एवं व्यतिरेकः अपि अस्याः तेभ्यः अभ्युपगन्तव्यः । उपलब्धि - स्वरूपः एव च नः आत्मा, इति आत्मनः देह-व्यतिरिक्तत्वम् । नित्यत्वं च उपैलब्धेः ऐकरूप्यात् । अहं इदं अद्राक्षं इति च अवस्था-अन्तर-योगे अपि उपलब्धृत्वेन प्रत्यभिज्ञानात् । स्मृत्यादि-उपपत्तेः च । यत् तु | ( १ ) किंच यः यस्य धर्मः सः न तत्-साधकः यथा रूपादिः । तथा च चैतन्यस्य भूत-भौतिक-साधकत्वात् एव तत्-अतिरेकसिद्धिः ॥ ( आनंदगिरि ) ( २ ) भवतु तर्हि भूतेभ्यः अतिरिक्ता स्वतंत्रा उपलब्धिः, तथापि कथं आत्म-सिद्धिः । तत्र आह- उपलब्धि' इति ॥ ( आनंदगिरि ) । । ( ३ ) क्षणिकत्वात् तस्याः नित्य-आत्म-रूपत्वं अयुक्तं, इति आशंक्य, अजानतः तत्-भेद-अभावात् विषय-उपरागात् तत्भानात् असौ एव अनित्यः न उपलब्धिः इति आह- नित्यत्वं च । इति ॥ ( आनंदगिरि ) घटः स्फुरति पटः स्फुरति इति सर्वत्र स्फूर्तेः अभेदात् नित्यत्वम् । विषय-उपराग-नाशे तु नाश-भ्रमः इत्यर्थः ॥ ( गोविंदानंद ) | ( ४ ) किंच स्थूल-देह-अभिमान-हीनस्य स्वप्ने प्रत्यभिज्ञाः नात्, अतिरिक्त-आत्म-सिद्धिः इति आह-'अहं' इति ॥ ( आनंदगिरि ) । (५) स्वप्ने अपि स्थूल-देह-अन्तरस्य एव उपलब्धृत्वं इति। आशंक्य आह- स्मृत्यादि ' इति । उपलब्धृ-स्मत्रः भेदे सति अन्य-उपलब्धे अन्यस्य स्मृतिः इच्छादयः च न इति न तयो अन्यता इत्यर्थः ॥ ( आनंदगिरि