पान:वैदिक तत्वमीमांसा.pdf/167

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य । (१६३ अत्र उच्यते । न स्वप्नादि-प्रत्ययवेत् जाग्रत्-प्रत्ययाः भवितुं अर्हन्ति । कस्मात् । वैधत् । वैध हि भवति स्वप्न - जागरितयोः । किं पुनः वैधय॑म् । बाध-अबाधौ इति ब्रूमः । बाध्यते हि स्वप्न-उपलब्धं वस्तु प्रतिबुद्धस्य, मिथ्या मया उपलब्धः महाजन-समागमः इति । न हि अस्ति मम महाजन-समागमः, निद्रा-ग्लानं तु मे मनः बभूव तेन एषा भ्रान्तिः उद्बभूव इति । एवं मायादिषु अपि भवति यथायथं बाधः । न एवं जागारत-उपलब्धं वस्तु स्तंभादिकं कस्यांचित् अपि अवस्थायां बाध्यते । अपि च स्मृतिः ऐषा यत् स्वप्नदर्शनम् । उपलब्धिः तु जागरितदर्शनम् । स्मृति उपलव्ध्योः च प्रत्यक्षं अन्तरं स्वयं अनुभूयते, अर्थ–विप्रयोग-संप्रयोग-आत्मकं, इष्टं पुत्रं : स्मरामि । न उपलभे उपलव्धं इच्छामि इति । तन्न एवं सति न शक्यते वक्तुं मिथ्या जागरित-उपलब्धिः उपलब्धित्वात्। स्वप्न-उपलब्धिवत् इति, उभयोः अन्तरं स्वयं अनुभवता । न च स्व-अनुभव-अपलापः प्राज्ञमानिभिः युक्तः कर्तुम् । अपि च अनुभव-विरोध-प्रसंगात् जागरित-प्रत्ययानां स्वतः निरावलंबनतां वक्तुं अशक्नुवता, स्वप्न-प्रत्यय साधम्र्यात् वक्तुं इष्यते । न च यः यस्य स्वतः धर्मः न संभवति, सः अन्यस्य साधम्र्यात् तस्य संभविष्यति । न हिं अग्निः उष्णः अनुभूयमानः उदक-साधम्र्यात् शीतः भविष्यति । दर्शितं तु वैधयॆ'स्वप्न-जागरितयोः ॥ (शारीरकभाष्य, २।२।२९) (१) वस्तुतः घटादि-अनुभवस्य निरालंबनत्वं धर्मः यदि स्यात्, तदा किं दृष्टान्त--आग्रहेण, प्रत्यक्षतः अपि वक्तुं शक्यत्वात् । न हि वः औष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतः धर्मः अस्ति