पान:भाषाशास्त्र.djvu/279

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२७२ भाषाशास्त्र उदात्ते निषाधगान्धारावनुदात्त ऋषभधैवतौ। स्वरितप्रभवाद्येते षड्ज मध्यमपंचमाः ॥ १२ ॥ अष्टौस्थानानिवर्णानामुरः कंठः शिरस्तथा । जिव्हा मूलं चदन्ताश्च नासिकोष्ठेचतालुच ॥ १३ ॥ ओभावश्च विवृत्तिश्च शषसारेफ एवच ।। जिव्हामूलमुपध्माच गतिरष्ट विधष्मणः ॥ १४ ॥ यद्यो भावप्रसंधान मुकारादि परं पदम् ।। स्वरान्तं तादृशं विद्याद्यदन्यव्यक्तमूष्मणः ॥ १५ ॥ हकारं पंचमैर्युक्तमन्तस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कंठ्यमाहुरसंयुतम् ॥ १६ ॥ कंठ्यावहा विचुयशास्तालव्या ओष्ठजावुपू ।। स्युर्मूर्धन्याटुरषा दन्त्या तुलसाः स्मृताः ॥१७॥ जिव्हामूलेतुकुः प्रोक्तो दल्योठ्योवः स्मृतो बुधैः । एपेतु कंठतालव्या ओऔ कंठोष्ठजौ स्मृतौ ॥ १८ ॥ अर्धमात्रातुकंठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९ ॥ संवृतं मात्रिकंज्ञेयं विवृतं तुद्विमात्रिकम् ।। घोषावासंवृताः सर्वे अघोषाविवृताः स्मृताः ॥ २० ॥ स्वराणामूष्मणांचैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङगै ताभ्यामैचौ तथैवच ॥ २१ ॥ अनुस्वरयमानांच नासिकास्थानमुच्यते । अयोगवाहाविज्ञेया आश्रयस्थान भागिनः ॥ २२॥ अलाबुवीणा निर्घोषो दन्त्यमूल्यस्वराननु । अनुस्वारस्तुकर्तव्यो नित्यंन्होः शषसेषुच ॥ २३॥