पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/४७३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१६० श्रीविनायकयोगीन्द्र स्तोत्रम् | भिषग्वरो यः खलु लब्धकीर्ति – । रायिग्लविद्यासमवाय एव ॥ धन्वंतारर्वा गदपीडितानां । विनायकं तं शिरसानतोऽस्मि ॥ ७ ॥ लब्धं धनं रोगचिकत्सया यो । गोमांसभेवागणयन्महात्मा ॥ व्यचिंतयत्स्वप्नगतोऽपि देशं । विनायकं तं शिरसानतोऽस्मि ॥ ८ ॥ लोकोपकारे निरतः सदैव । नाहारमप्येष कदाप्यकर्षीत् ॥ पुण्यं महद्यत्स्मरणं ददाति ॥ विनायकं तं शिरसानतोऽस्मि ॥ ९ ॥ धर्माभिमानः स्वजनाभिमानो । यस्याभवत्तीव्रतरो जगत्याम् ॥ आदर्श एवाभवदल यूनां । विनायकं तं शिरसानतोऽस्मि ।। १० ।। मुकुंदरचितं स्तोत्रमेतत्पठति यो नरः । विनायकप्रसादेन देशभक्तो भवेदसौ ॥ ११ ॥ श्रावण व ४ शके १८४८ मुकुंदरायः