पुराण निरीक्षण.. वराहकल्पाच्या वृत्तांतास आरंभ करून पराशरानें ज्यांत संपूर्ण धर्म सांगितलेले आहेत तें विष्णुपुराण असून यांत एकंदर लोकसंख्या २३००० आहे. " ५८ "C नारदपुराणांत याची सूची याप्रमाणे दिलेली आहे:- शृणु वत्स ! प्रवक्ष्यामि पुराणं वैष्णवं महत् । त्रयोविंशतिसाहस्रं सर्वपातकनाशनम् ॥ यत्रादिभागे निर्दिष्टाः षडंशाः शक्तिजेन ह । • मैत्रेयायाssदिमे तत्र पुराणस्यावतारिकाः || प्रथमांशे । आदिकारणसर्गश्च देवादीनां च संभवः समुद्रमथनाख्यानं दक्षादीनां ततोच्चयाः ॥ ध्रुवस्य चरितं चैव पृथोश्चरितमेव च । प्राचेतसं तथाख्यानं प्रल्हादस्य कथानकम् । पृथग् राज्याधिकाराख्याः प्रथमोंऽश इतीरितः । द्वितीयांशे। प्रियव्रताचयाख्यानं द्वीपवर्षनिरूपणम् । पातालनरकाख्यानं सप्तस्त्रर्गनिरूपणम् ।। सूर्यादिचारकथनं पृथग्लक्षणसंयुतम् । चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ॥ निदाघऋभुसंवादो द्वितीयोंऽश उदाहृतः । तृतीयांशे । मन्वंतरसमाख्यानं वेदव्यासावतारकम् ॥ नरकोद्धारकं कर्म गदितं च ततः परम् ॥ सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् । श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबंधने ॥
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/७३
Appearance