प्रकरण दुसरें. पष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः || अष्टमं मानवं ( वामनं ) प्रोक्तं ततश्चोशनसेरितम् ॥ ततो ब्रह्मांडसंज्ञं तु वारुणाख्यं ततः परम् । ततः कालीपुराणाख्यं विशिष्टं मुनिपुंगवाः || ततो वासिष्ठलिंगाख्यं प्रोक्तं माहेश्वरं परम् । ततः सांबपुराणाख्यं ततः सौरं महाद्भुतम् ॥ पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् । भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् || १६५ हे श्लोक माधवाचार्याच्या वेळी ( १४ वे शतकांत ) सूतसंहितेंत होते; व हेच श्लोक प्रस्थानभेदांत मधुसूदनसरस्वतींनीं उतरून घेतलेले आहेत. याही पूर्वीच्या मत्स्यपुराणाच्या ५३ व्या अध्यायांत उपपुराणांची माहिती येणेंप्रमाणे सांगितलेली आहे:- उपभेदान्प्रवक्ष्यामि लोके ये संप्रतिष्ठिताः । पाद्मे पुराणे यत्रोक्तं नारासंहोपवर्णनम् । तच्चाष्टादशसाहस्रं नारसिंह मिहोच्यते ।। ५९ ॥ नंदाया यत्र माहात्म्यं कार्तिकेयेन वर्ण्यते । नंदीपुराणं तल्लोकै राख्यातमिति कीते || ६० ॥ यत्र सांबं पुरस्कृत्य भविष्येऽपि कथानकम् । प्रोच्यते तत्पुनर्लोके सांबमेतन्मुनीश्वराः ॥ ६१ ॥ पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः । धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् ॥ ६२ ॥
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१८०
Appearance