Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१५९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१४४ पुराणानिरीक्षण दक्षसृष्टिकथा पश्चात्कश्यप न्वयकीर्तनम् || आत्रेयवंशकथनं कृष्णस्य चरितं शुभम् || मार्केडकृष्ण संवादो व्यासपांडवसंकथा | युगधर्मानुकथनं व्यासजैमिनिकी कथा | वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ॥ त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् । उत्तरेऽस्य विभागे तु पुरा गीतेश्वरी ततः ॥ व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी | नानाविधानां तीर्थानां माहात्म्यं च पृथक् पृथक् ॥ नानाधर्मप्रकथनं ब्राह्मीयं संहिता स्मृता || अतः परं भगवती संहितार्थनिरूपणे । कथिता यत्र वर्णानां पृथग्वृत्तिरुदाहृता ॥ ( तदुत्तरभागीयभगवत्या ख्यद्वितीयसंहितायाः पंचपादेषु ) अस्याश्च प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः । सदाचारात्मिका वत्स ! भोगसौख्यविवर्धिनी ॥ द्वितीये क्षत्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता । यया स्वातिया पापं विधूयेह व्रजेच्छिवम् । तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा || यया चरितया सम्यक् लभते गतिमुत्तमम् । चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता || यथा संतुष्यति श्रीशो नृणां श्रेयोविवर्धनः । पंचमेऽस्यास्ततः पादे वृत्ति: शंकरजोदिता ||