प्रकरण दुसरे, अतः संप्रवक्ष्यामि पुराणं सर्वसिद्धिदम् । भविष्यद्भवतः सर्वलोकाभीष्टप्रदायकम् ॥ यत्राह सर्वदेवानां आदिकर्ता समुद्यतः । सृष्टयर्थं तत्र संजातो मनुः स्वायंभुवः पुरा || स मां प्रणम्य पप्रच्छ धर्ने सर्वार्थसाधकम् । अहं तस्मै तदा प्रीतः प्रोवाच धर्मसंहिताम् । पुराणानां यदा व्यासो व्यासं चक्रे महामतिः । तदा तां संहितां सर्वो पंचधा व्यभजनमुनिः ॥ अघोरकल्पवृत्तांतनानाश्चर्यकथाचिताम् । तत्रादिमं स्मृतं सर्वं ब्राह्मं यत्रास्त्युपक्रमः ॥ सूतशौनकसंवादे पुराणप्रश्नसंक्रमः । आदित्यचरितं प्रायः सर्वाख्यानसमाचितम् || सृष्ट्यादिलक्षणोपेतः शास्त्रसर्वस्वरूपकः । पुस्तकलेखकलेख्यानां लक्षणं च ततः परम् ॥ संस्काराणां च सर्वेषां लक्षणं चात्र कीर्तितम् ॥ अक्षय्यादितिथीनां च कल्पाः सप्त च कीर्तिताः || अष्टम्याद्याः शेषकल्पा वैष्णवे पर्वण स्थिताः । शैवे च कामतो भिन्नाः सौरे चान्यकथाश्च याः ॥ प्रतिसर्गाव्हयं पश्चान्नानाख्यानसमाचितम् । पुराणस्योपसंहारसहितं सर्वपंचमम् || • एषु पंचसु पूर्वस्मिन् ब्रह्मणो महिमाधिकः । १०५
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१२०
Appearance