Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/११३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

६८ पुराणनिरीक्षण. वारव्रतानुकथनं नक्षलव्रतकीर्तनम् । मासिकव्रतनिर्देशो दीपदानविधिस्तथा || नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम् । व्रतानां चापि दानानां निरूपणमिहोदितम् || नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः । गायत्र्यर्थस्य निर्देशो लिंगस्तोलं ततः परम् । राजाभिषेकमंत्रोक्तिर्धर्मकृत्यं च भूभुजाम् ॥ स्वमाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् । मंडलादिक निर्देशो रणदीक्षाविधिस्तथा ॥ रामोक्तनीतिनिर्देशो रत्नानां लक्षणं ततः । धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम् || देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् । गजादीनां चिकित्सा च तेषां शांतिस्ततः परम् | गोनसादिचिकित्सा च नाना पूजास्ततः परम् ॥ शांतयश्चापि विविधाञ्छंदः शास्त्रमतः परम् । साहित्यं च ततः पश्चादेकार्यादिसमाव्हयाः ॥ सिद्धशिष्टानुशिष्टश्च कोषः स्वर्गादिवर्गके ॥ प्रलयानां लक्षणं च शारीरक निरूपणम् । वर्णनं नरकाणां च योगशास्त्रमतः परम् || ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् । एतदाग्नेयकं विप्र ! पुराणं परिकीर्तितम् ||