पान:केतकी ग्रहगणितम् ।.pdf/66

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. याः । प्रकृतोदाहरणे ग्रहणमध्यकालिकाः स्फुटवल नांघ्रयः ०३८ दक्षिणाः, विराह्वर्कः रा. ५।२७ उत्तरगोलीयः अतश्चंद्रबिंबस्योत्तरबिंदोः सकाशात् सव्यं अंगु. ०।३८ प्रमिर्तेऽतरे ग्रहणमध्यो भवेदिति सिद्धम् । स्पर्शादीनां स्थानाने दिशश्च । प्र. ला. । मध्याच्छन्नाशांघ्रिभिः प्राक् च पश्चा दिंदोळस्तं तूष्णगोः स्पर्शमोक्षौ ॥ खग्रासारखच्छन्नपादैः परे प्राक् । दत्तैरिंदोर्मीलनोन्मीलने स्तः ॥ ११ ॥ ग्रहणमध्याद् ग्रासांघ्रिभिः प्राक्पश्चाविंबप्रांते स्पर्शमोक्षस्थानदर्शके चिढ़े कार्ये । एवं हि खग्रासांघ्रिभिः खग्रामस्थानात्प्राक्पश्चाच्चिन्हे कृत्वा संमीलनोन्मीलनस्थाने प्रदर्शयेत् । चंद्रग्रहणे बिंबस्य पूर्वभागे स्पर्शः उन्मीलनं च, पश्चिमभागे मोक्षः संमीलनं च भवतः । सूर्यग्रहणे एतद्विपरीतं भवति । ग्रहणमध्यकाले ग्रासस्वरूपम् । अभीष्टदैये समष्टिलिप्ताः कृत्वा विधोासदलेन कुर्यात् । बिंब विधोस्तत्परिधौ दिशश्च द्वात्रिंशदंघ्रीन्विदिशश्च दद्यात्॥१२॥ ग्लौमध्यतो ग्रासदिशि प्रमायः शरस्तदने क्षितिभादलेन । वृत्तं लिखेद्रात्रिपतिश्च तस्मिन् यावानिमज्जोत्पहितंच तावत् ॥१३॥ चंद्रग्रहणभंगी। भूभान कुभेंदुयोगविवरार्धाभ्यां च रेखास्थितात् तिथ्यंतांकितकेंद्रकात्किल लिखेत्तत्रयं तत्स्थलम् । अद्वार्घटिकांतराण्यु भयतः पंचांत्यघट्यंतरे तत्तत्कालभवौ च चंद्रविशिखौ स्वाशोन्मुखावंकयेत् ॥ १४ ॥ स्यादाचंतशराग्रयोः प्रणिहिता रेवंदमार्गः स वै. मानार्धक्यवियोगवृत्तयुगलं छिंद्याच यस्मिन्स्थले । तत्तत्स्थानगते क्षणे च भवति स्पर्शस्तथा मीलनं मध्योन्मीलनमुक्तयोऽखिलामिदं भंग्यां भवेद्गोचरम् ॥ १५॥ इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यामंकविवृतौ चंद्रग्रहणाधिकार: पंचमः ॥ ५॥ स