पान:सार्थ ज्ञानेश्वरी.pdf/२२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

涼涼涼涼涼涼涼涼涼冰冰涼涼涼冰涼涼涼涼涼涼源 ॥ अथ श्रीमद्भगवद्गीताध्यानादि ॥ ॥ श्रीगणेशाय नमः ॥ श्रीगोपालकृष्णाय नमः ॥ ॐ अस्य श्रीमद्भगवद्गीता मालामन्त्रस्य भगवान्वेदव्यास ऋषिः । अनुष्टुप् छन्दः ॥ श्रीकृष्णः परमात्मा देवता ॥ अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस इति बीजम् ॥ सर्वधर्मान्परित्यज्य मामकं शरणं व्रजेति शक्तिः ॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुत्र इति कीलकम् ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गप्राभ्यां नमः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव चेति मध्यमाभ्यां नमः ॥ नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ॥ पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति करतलकरपृष्ठाभ्यां नमः ॥ इति करन्यासः ॥ अथ हृदयादिन्यासः ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ॥ अच्छेद्योऽयमदाद्योऽयमक्लेयोऽशोष्य एव चेति शिखायै वषट् ॥ नित्यः सर्वगतः स्थाणुर- चलोऽयं सनातन इति कवचाय हुम् ॥ पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति नेत्रत्रयाय वौषट् ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि चेति अस्त्राय फट् ॥ श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम्॥ अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीमम्व त्वामनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥ १ ॥ नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ २ ॥ प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३ ॥ सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः । पार्थो वत्सः सुधीर्भोक्ता दुग्ध गीतामृतं महत् ॥ ४ ॥ वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ५ ॥ भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः॥६॥ पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथा संबोधनाबोधितम् । लोके सज्जनपट्पदेरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमल प्रध्वंसि नः श्रेयसे ॥ ७ ॥ मूकं करोति वाचालं पहुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ८ ॥ यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वति दिव्यैः स्तवेर्वदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो ।

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ ९ ॥ ॥ इति ध्यानम् ॥ 冰涼涼涼涼涼涼冰冰冰冰冰涼涼涼涼涼涼涼涼清冰涼冰