पान:बाणभट्ट.pdf/९८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२७ग नंदितनयनचकोरा नवनवलावण्यकौमुदीप्रसरा । उत्कुलयति मनो मे जलधि सैपा कलेव चांद्रमसी ॥ बृहस्पतिः | अग्निमुपसमाधाय । शंकर त्वदीयेन पाणिना पार्वत्या पाणिमवलंबस्व | गीतिः शंकरः । तथा करोति । पार्वती । पुलकोद्भेदमभिनयति । शंकरः । आत्मगतम् । गीतिः आभाति वालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनववसंतसंगादाविर्मुकुलेव वालचूतलता । ब्रह्मा | वधूवरौ पावकं प्रदक्षिणां कुरुतम् । उभौ । तथा कुरुतः । पार्वती । शंकरमवलोकयति । शंकरः । प्रत्यवलोकयति । पार्वती । दृष्टिं परावर्तयति । शंकरः । आत्मगतम् । गीतिः अवलोकनाय लोला दृष्टिरियं मृगदृशो निवृत्तिमती । गत्वा प्रतिप्रवाह राजति शफरी निवर्तमानेव || बृहस्पतिः । पार्वत्याः पाणिना लाजांजलिं कारयति । पार्वती । धूमाक्रमेण वैक्लव्यं निरूपयति । शंकरः । अत्मगतम् । प्रस्विन्नगंड फलकच्युतपत्र लेख धूमानुपंगगलितांजनपाटलाक्षम् । म्लायद्वसन्तकुसुमं मुखमायताक्ष्या चित्ते ममार्पयति कामपि रागमुद्राम् || बृहस्पतिः । शंकर पार्वत्याः पादकमलं पाणिभ्यामश्मानमारो- पयतु भवान् |