पान:बाणभट्ट.pdf/२५४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( २२७ ) सौभाग्यगुणस्यूतामित्रातिकृच्छ्रेण दृष्टिमाकृष्य स्नातुमुदचूलम् | उच्च- लितायां च माय द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्यस्खलित मालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् । चेतसः | व सा सर्वविषयनिरुत्सु सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रेजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः । किं यः प्राकृत इव विक्लवीभवन्तमात्मानं न रुणत्सि | कुतस्तवापूर्वीयमाद्येन्द्रियोपप्लवो येनास्येवं कृतः । क ते तद्धैर्यम् । कासाविन्द्रियजयः व तद्वशित्वं प्रशान्तिः । क तरकुलक्रमागतं ब्रह्मचर्यम् | क सा कता | क ते गुरूपदेशः । क तानि श्रुतानि | क ता वैराग्यबुद्धयः | व तदुपभोगविद्वेषित्वम् | व सा मुखपराङ्मुखता । क्वासौ तपस्य. भिनिवेशः । क्व सा भोगानामपर्यरुचिः | क्व तद्यौवनानुशासनम् । सर्वथा निष्फला प्रज्ञा | निर्गुणो धर्मशास्त्राभ्यासः । निरर्थकः संस्कारः । निरुपकारको गुरूपदेशविवेकः । निष्प्रयोजना प्रबुद्धता | निष्कारणं ज्ञानम् । यदव भवादृशा अपि रागाभिषङ्गैः कलुषीकि यन्ते प्रभादैश्वाभिभूयन्ते । कथं करतलाइलितामपहनामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्वम् । अपहृता नामेयम् । इदमपि तावदपहियमाणमनयानार्यया निवार्यतां हृदयम् । इत्येवमभित्रीयमानश्च तेन किंचिदुपजातला इव प्रत्यवादीत् । सखे कपिञ्जल किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्बिनी: तकन्यकाया मर्पयाम्यक्षमालाग्रहणापराधमिमम् । इत्यभिधायाली. ककोपकान्तेन प्रयत्नविरचितभीषणभ्रुकुटिभूषणेन चुम्बनाभिलाप- स्फुरिताधरेण मुखेन्दुना मामवदत् । चञ्चले प्रदेशादस्मादिमामक्षमा- लामदत्वा पदात्पदमपि न गन्तव्यमिति । तच्च श्रुत्वाहमात्मकंठा- दुन्मुच्य मकरध्वजलास्यारम्भलीला पुष्पाञ्जलिमेकावली भगवन्गृह्य- तामक्षमालेति मन्मुखासक्तदृष्टे: शून्यहृदययस्यास्य प्रसारिते पाणौ निधाय स्वेदसलिस्नातापि पुनः स्नातुमचातरम् | उत्थाय च कथ मपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिपम् । " यांत कामिजनांच्या परस्पर भेटीचा प्रसंग, त्रियोग होण्याच्या वेळची स्थिति, अशा वेळी उपदेशाची व्यर्थता, मिश्रा कोष, देहभान नाहींसें होणे, .