पान:प्राचीन मिस्त्रीलोकांचे वृत्तांत कथन.pdf/408

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

(४०९) साम्राज्यप्रतिष्ठापनाचार्यश्रीमद्राजाधिराजगुरुभूमंडलाचार्यचातुर्वर्ण्यशिक्षकगोमतीतीरवासश्रीमद्वारकापुरवराधीश्वरपश्चिमाम्नायश्रीमच्छारदापीठाधीश्वरश्रीमत्केशवाश्रमस्वामिदेशिकवरकरकमलसंजातश्रीशारदापीठा धीश्वरश्रीमद्राजराजेश्वरशंकराश्रमस्वामिभिः शिष्यकोटिप्रविष्टान् निरवयवैदिकराद्धांतश्रद्दधानचेतः साम्राज्यसमलंकतानशेषभरतखंडसदायतनविद्वरान् प्रति प्रत्यग्ब्रह्मैक्यानुसंधाननियतनारायणस्मरणसंसूचिताशिषस्समुल्लसंतुतराम् जगद्गुरूणां महेश्वरापरावतारश्रीमच्छंकरभगवत्पूज्यपादाचार्याणामादिमैकांतिकास्थानद्वारकास्थश्रीमच्छारदापीठगोचरा भक्तिरनवधिकश्रेयोनिदानमिति सार्वजनीनमेतत् । सांप्रतम्. भगवत्याः शारदाया लष्करनगरीग्वालियरसंनिहितांत्रीजनपदसमावेशवासरविशेषमुपक्रम्याप्रस्थितेर्लष्करप्रस्थात्प्रज्ञापितसायननिरयनभेदभिन्नप्रक्रियातिशयसमास्पदीभूतप्रक्रमभरबुभुत्सापरायत्तस्वांतेन ले लेइत्युपाभिधानविसाजीरघुनाथशर्मणा तन्नगरीनिकेतनेनानुपदमभ्यर्हितामभ्यर्थनामुररीकुर्वाणैर्विगानविशेषपरामृष्टप्रत्ययसंधानैरिदमत्रास्माभिरवधार्यते तथाहि दर्शनसामान्यस्यावान्तरमहातात्पर्यविशेषानुगृहीतविग्रहवत्तयोपक्रमपरामर्शोपसंहाराननुगम्यापिचरमामेव तयोस्तात्पर्यमहाभूमिमभ्युदितफलाभिधेयप्रसवित्रीमाचक्षाणास्सम्मीयते तीर्थकाराः अवान्तरतात्पर्येतिकर्तव्यताप्रयुक्तप्रसक्तिनिर्वहणायाभ्यन्तरपदार्थपरिशीलनौपयिकप्रयत्नातिशयस्यार्थवत्वेऽपि तथात्वमेव तस्यावक्तृप्तमवसितं भवत्युपसर्जनमुद्रया किलाशेषत्र. महातात्पर्यकथासुधात्वविरुतवस्तुभेदप्रग्रहमेव प्रत्यस्तमितसातिशयविधाविधानमपूवंतरमनुभावयन्ती प्रतर्पयाती च निरूढार्थप्रघटिकामसाधारणी तां चकास्त्येव सर्वशः सरणिरेषा सर्वास्वपि दर्शनस्थितिषु सत्येव साधारणी प्रतिष्ठापयत्यर्थतत्वमिति वस्तुस्थितिः प्रकते हि सायननिरयनतंत्रयोरितरेतरप्रत्यनीकभावभावितयोरप्यन्योन्यस्वरूपविशेषसमर्पणकते कृताकांक्षयोरस्ति हि वैषम्यं भूयः तच्च परिगणितानेकपदार्थविभागभागपि ज्योतिःशास्त्रमहातात्पर्यैदम्पर्यविषयीभूतकालावयवयाथात्म्यमनुभावयमानं विहितसमस्तश्रौतस्मातक्रियाकलापनियतकालविभ्रमापनोदनिर्भरमनुकूलीलताशेषशेषभूतवस्तुव्यवस्थाकमपरामृष्टविपर्ययप्रतीतिजननमविपर्यस्ताबाधितासंदिग्धदृक्प्रतीतपर्याप्तमेव परिसमाप्यते स्वाभावभावितमर्थत इत्यादरगोचरं भवत्येव सायनतंत्रगतं तदेतत्. । निरयनतंबायत्तं तदिदं यथाभूतक्रियाकलापकालनिर्देशनिवर्तनासमर्थसत्तदुपजीवकतामेवाविवादमश्रुत इति स एष सायनपक्षः सर्वैरपि श्रीमता विसाजी रघुनाथ शर्मणा समर्थितस्सदसद्विचारणापुरःसरमाद्रियतां महाशयैरशेषवर्णाश्रमिभिरिति स्थितम् । अनादिसिद्धश्रीमज्जगद्गुरुसंस्थानाज्ञापरिपालनैकपरंपराकेषु किमधिकं ब्रह्मक्षत्रादिशिप्यवरेष्विति शिवम्. श्रीमच्छंकरभगवत्पूज्यपादाचार्याणामवतारशकाब्दाः २३६२ फाल्गुनकृष्णाष्टम्यां ८ स्थिरे संवत् १९४९ शके १८१४ ( स्वारी मु० धवलपूरम् ) (बार अंक में ) श्री ५२