Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/६४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें. अगस्त्याद्यागमश्चैव पौलस्त्याय च कर्तिनम् || अश्वमेधोपदेशश्च हयचर्या ततः परम् । नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् || वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम् । नित्यलीलानुकथनं यत्र कृष्णावतारिणः ॥ माधवस्त्रानमाहात्म्ये स्नानदानार्चने फलम् । धरावराहसंवादो यमब्राह्मणयोः कथा || संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम् । शिवशंभुसमायोगो दधीच्याख्यानकं ततः ॥ भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम् । देवरातसुताख्यानं पुराणज्ञप्रशंसनम् ॥ गौतमाख्यानकं चैव शिवगीता ततः स्मृता । कल्पांतरी रामकथा भरद्वाजाश्रम स्थितौ || पातालखंडमेतद्धि शृण्वतां ज्ञानिनां सदा । सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् || ( उत्तरखंडे. ) पर्वताख्यानकं पूर्वं गौर्यै प्रोक्तं शिवेन वै । जालंधरकथा पश्चात् श्रीशैलाद्यनुकीर्तनम् ॥ सगरस्य कथा पुण्या ततः परमुदीरिता । गंगाप्रयागकाशीनां गयायाश्चापि पुण्यकम् ॥ अम्राादिदानमाहात्म्यं तन्महाद्वादशीव्रतम् । ४९