१५८ पुराणनिरीक्षण, शृणु वत्स ! प्रवक्ष्यामि ब्रह्मांडाख्यं पुरातनम् । तच्च द्वादशसाहस्रं भाविकल्पकथायुतम् ॥ प्रक्रियाख्योऽनुषंगाख्य उपोद्धातस्तृतीयकः । चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥ पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः । तृतीयो मध्यमो भागः चतुर्थस्तूत्तरो मतः ॥ ( तत्र पूर्वभागे प्रक्रियापादे ) आदौ कृतसमुद्देशो नैमिषाख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च । प्रथमः पादो द्वितीयं शृणु मानद ! | ( पूर्वभागे अनुषंगपादे ) कल्पमन्वंतराख्यानं लोकज्ञानं ततः परम् । मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ॥ महादेवविभूतिश्च ऋषिसर्गस्ततः परम् । अग्नीनां विषयश्चाथ कालसद्भाववर्णनम् || प्रियव्रताचयोद्देशः पृथिव्यायामविस्वरः । वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् || जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् । ऊर्ध्वलोकानुकथनं ग्रहचारस्वतः परम् । आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥ नीलकंठाव्याख्यानं महादेवस्य वैभवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥ एष
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१७३
Appearance