Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१५६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

• प्रकरण दुसरें. प्रल्हादनारायणयोर्युद्धं देवासुरावयम् ॥ सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् । ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥ तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् । सुरमाहात्म्यमतुलं पार्वतीजन्मकीर्तनम् ॥ तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः । ततः कौशिक्युपाख्यानं कुमारचरितं ततः । ततोऽन्धकवधाख्यानं साधूपाख्यानकं ततः ॥ जाबालिचरितं पश्चात् अरजायाः कथाऽद्भुता ॥ अंधकेश्वरयोर्युद्धं गणत्वं चांधकस्य च ॥ मरुतां जन्मकथनं बलेश्च चरितं ततः ॥ ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् | प्रल्हादतीर्थयात्रायां प्रोच्यंते तत्कथाः शुभाः || ततश्च धुंधुचरितं प्रेतोपाख्यानकं ततः । नक्षत्रपुरुषाख्यानं श्रीरामचरितं ततः । त्रिविक्रमचरित्रांते ब्रह्मप्रोक्तः स्तवोत्तमः || प्रल्हादबलिसंवादे सुतले ह्रिशंसनम् । इत्येष पूर्वभागोऽस्य पुराणस्य तबोदितः ॥ शृणु तस्योत्तरं भागं बृहद्वामनसंज्ञकम् । माहेश्वरी भगवती सौरी गाणेश्वरी तथा ।। चतस्रः संहिताश्चात्र पृथक्साहस्रसंख्यया । माहेश्वर्या तु कृष्णस्य तद्भक्तानां च कीर्तनम् || १४१