Jump to content

पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१३६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें, तत्र सूतर्षिसंवादे पुराणीयक्रमो मतः ॥ सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः। विवादः सुमहान्यत्र द्वयोरासीत्पराभवः ॥ शिवलोकगतिः पश्चाज्ज्ञानलाभः शिवान्मुनेः । शिववाक्येन तत्पश्चान्मरीचेर्नारदस्य च ॥ गमनं चैव सावर्णेर्ज्ञानार्थं सिद्धसेविते । आश्रमे सुमहापुण्ये त्रैलोक्याश्चर्यकारिणी ॥ एतद्धि ब्रह्मखंडं हि श्रुतं पापविनाशनम् | ततः सावर्णिसंवादो नारदस्य समीरितः ॥ कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरः । प्रकृतेरंशभूतानां कलानां चापि वर्णितम् ॥ माहात्म्यं पूजनाद्यं च विस्तरेण यथास्थितम् || एतत्प्रकृतिखंडं हि श्रुतिभूतिविधायकम् ॥ गणेशजन्मसंप्रश्नसपुण्यकमहाव्रतम् । पार्वत्याः कार्तिकेयेन सह विघ्नेशसंभवः || चरितं कार्तवीर्यस्य जामदश्यस्य चाद्भुतम् । विवादः सुमहान्पश्चाज्जामदग्नथगणेशयोः ॥ एतद्विघ्नेशखंडं हि सर्वविघ्नविनाशनम् । श्रीकृष्णजन्मसंप्रश्नो जन्माख्यानं ततोऽद्भुतम् ॥ गोकुले गमनं पश्चात्पूतनादिवधोऽद्भुतः । बाल्यकौमारजा लीला विविधास्तत्र वर्णिताः ॥ १२१ DEC at