पान:केतकी ग्रहगणितम् ।.pdf/68

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

सूर्यग्रहणाधिकारः। अथ सूर्यग्रहणाधिकारः । इष्टग्रामे दृश्यो दर्शातो गणितोपकमघटी च । एकादिषट्माङ्नतनाडिकासु दर्श स्थितेऽदुयुती त्वरा स्यात् । एकद्विरामाग्नियुगाब्धिनाड्यः क्रमेण शेषासु च वेदनाड्यः ॥१॥ पश्चादिनार्धानतनाडिकासु प्रागुक्तनाडीमितो विलंबः। दृग्दर्शतः प्राक्परपंचनाडीपक्रमान्तौ गणितस्य कायौँ ॥२॥ दर्शे नतनाडी ०, १, २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५ त्वराविलंबोवा ०, १, २, ३, 3, , , , , , , , , , र स्पष्टाभ्यां रविचंद्राभ्यां साधितो यः समकलदर्शातकाल: पंचांगे लिख्यते स यद्यभीष्टे ग्रामे पूर्वाह्ने पतेत्तदा पंचांगस्थदशांतात् पूर्वमेव सूर्येदुसंगमो गोचरो भवेत् । यद्यपराहे तदा पश्चात् इति भावः । त्वराविलंबौ दर्शातीयनतघटीमनुभिद्यतः । एवं स्वाभीष्ठे ग्रामे गोचरदर्शातघटीमानीय तस्याः प्रागूय पंचसु नाडीषु वक्ष्यमाणं गणितं कार्यम्, यतोऽस्मिन्नेवावधौ प्रायः स्पर्शमोक्षौ भवतः । उदाहरणम् शके १८१९ वर्षे पौषवदि ३० अमावास्यायां शनिवासरे नागपुरे सूर्यस्य खग्रासग्रहणं भविष्यात । अतस्तद्विषयक निखिलं गणितं कुरु । नागपुरे रेखांतरं पूर्व योजनात्मकं २२, पलात्मकं ३३, आक्षांशाः २१।९, पलभा ४।३९, ग्रहणदिवसे दिनमानं घ. २७।१६, दिनार्धं घ. १३।३८, दीतः पंचांगस्थः घ. १९, अनयोरतरं घ. १।२२। अतो दांतोऽपराह्ने घ. १।२२ मिते नतकाले भवतीति सिद्धम् । तस्मात् पंचांगस्थदशतिकालादेकयाघटिकया पश्चान्नाम षोडश्यां घटिकायां नागपुरे सूर्येदुसंगमो गोचरः स्यात् । अतोऽस्मिन् दिवसे एकादश्या एकविंशीघीयावत्, प्रतिमुहूर्त लंबनादिगणितं कार्यमिति फलितम् । उपकरणानि । साध्याः किलादौ विधुपर्वभावास्ततो मुहूर्तातरिताः क्रमेण । विधोः शरः सायनभास्करश्च युक्तायनांशत्रिभहीनलग्नम् ॥ ३ ॥ उदाहरणम् । इह षोडशीघटीभवा भावा गणनीयः । उक्तदिवसे प्रातःकाले उज्जयिन्यां गतचक्रं १, गताहर्गणः २९४, अहर्गणोत्पन्ना रविगतिः रा.