सरस्वती (बुद्धि) स्तोत्र

विकिस्रोत कडून
येथे जा: सुचालन, शोध

पूर्वपीठिका:
वैशंपायन गुरुच्या शापामुळे याज्ञवल्क्य मुनींची सर्व विद्या नष्ट झाली. पुन्हा विद्या मिळविण्यासाठी याज्ञवल्क्य मुनींनी सूर्याची उपासना केली. प्रसन्न होऊन सूर्याने त्यांना वेद आणि वेदांगे शिकविली आणि त्या अध्ययनाची स्मृती रहावी म्हणून वाग्देवतेचे स्तवन करायला सांगितले. त्याउपर याज्ञवल्क्यांनी सरस्वतीला प्रसन्न करण्यासाठी जे स्तोत्र गायले तेच हे सरस्वती (बुद्धि) स्तोत्र होय.

याज्ञवल्क्य उवाच—

कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशपात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥१॥

ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् । ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥२॥

प्रतिभां सत्सभायां च विचार क्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनःकुरु ॥३॥

यथांकुरुं भस्मानि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ॥४॥

सर्वविद्याधिदेवी या तस्यै वाण्यै नमोनमः । विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥५॥

तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥६॥

यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते । कालसंख्यारूपा या तस्यै देव्यै नमोनमः ॥७॥

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमोनमः । स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥८॥

प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥९॥

बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः । तदा जगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥१०॥

उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥११॥

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् । यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥१२॥

बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः । तदा तां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ॥१३॥

ततश्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥१४॥

मौनीमूतश्च सस्मार तामेव जगदंबिकाम् । तदा चकार सिद्धान्तं तद्धरेण मुनीश्वरः ॥१५॥

संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीकम् । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥१६॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वत्तो वरं प्राप्य सत्कवींद्रो बभूव ह ॥१७॥

तदा वेदविभागं च पुराणं च चकार सः । यदा महेंद्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥१८॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥१९॥

दिव्यं वर्षसहस्त्रं च सा त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्त्रकम् ॥२०॥

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥२१॥

ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनींद्रैर्मुनिमानवैः ॥२२॥

दैत्येंद्रैश्चसुरैश्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥२३॥

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः ॥२४॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरुपा महामाया तेन द्ष्टाप्युवाच तम् ॥२५॥

सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम हे । याज्ञवल्क्यकृतं वाणीस्तोत्रमतेत्तु यः पठेत् ॥२६॥

महामूर्खश्च दुर्बुध्दिर्वर्षमेकं यदा पठेत् । स पंडितश्च मेधावी सुकवींद्रो भवेद्ध्रुवम् ॥२७॥