रुद्र सूक्त

विकिस्रोत कडून
Jump to navigation Jump to search

नमस्ते रुद्र मन्यव ।अ-उतो त ।अ-इषवे नमः ॥ बाहुभ्यामुत ते नमः ॥ १ ॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ॥ तया नस्स्तन्न्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥ २ ॥

यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे ॥ प्. ४४८)शिवाङ्गिरित्र ताङ्कुरु मा हिंसीः पुरुषञ्जगत् ॥ ३ ॥

शिवेन व्वचसा त्वा गिरिशाऽच्छाव्वदामसि । यथा नः सर्वमिज्जगदयक्ष्मं सुमना ।अ-असत् ॥ ४ ॥

अद्ध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्न्योऽधराचीः परासुव ॥५ ॥

असौ यस्ताम्रो ।अ-अरुण ।अ-उत बभ्रुः सुमङ्गलः । ये चैनं रुद्रा ।अ-अभितो दिक्षु श्रिताः सहस्रशोऽवैषां हेड ।अ-ईमहे ॥६ ॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनङ्गोपा ।आदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ ७ ॥

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये ।अ-अस्य सत्वानोऽहन्तेभ्योऽकरन्नमः ॥ ८ ॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो व्वप ॥ ९ ॥

विज्ज्यन्धनुः कपर्दिनो विशल्यो बाणवा२ ॥ ' उत ॥

अनेशन्नस्य या ।अ-इषव ।अ-आभुरस्य निषङ्गधिः ॥ १० ॥

या ते हेतिर्म्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान्न्विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११ ॥

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य ।अ-इषुधिस्तवारे ।अ-अस्मन्निधेहि तम् ॥ १२ ॥

अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे । निशीर्य शल्यानाम्मुखा शिवो नः सुमना भव ॥ १३ ॥

नमस्त ।अ-आयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यान्तव धन्वने ॥ १४ ॥

मा नो महान्तमुत मा नो ।अ-अर्ब्भकम्मा न ।अ-उक्षन्तमुत मा न ।अ- उक्षितम् ॥ मा नो व्वधीः पितरम्मोत मातरम्मा नः प्प्रियास्तन्न्वो रुद्र रीरिषः ॥१५ ॥

मा नस्तोके तनये मा न ।अ-आयुषि मा नो गोषु मा नो ।अ-अश्वेषु रीरिषः । मा नो व्वीरान् रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ १६ ॥