Jump to content

पान:श्रीराम उपासना ग्रंथ.pdf/४७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
४१
॥ ब्रह्मस्तुति

वंदेदेवंविष्णुमशेष स्थिति हेतुंत्वा मध्यात्मज्ञानिभिरंतर्हदिभ (व्यम् ॥ हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थंडशिरूपम् ॥ १ ॥ प्राणापानौनिश्चयबुध्याहृदिरुध्वाछित्वा सर्वे संशयवंधंविषयौघान् ॥ पश्यंतीशंयंगतमोहायतयस्त्वंवंदेरामंरत्नकिरीटंरविभासम् ॥ २ ॥ मायातीतंमाधवमाद्यंजगदादिमानातीतं मोहविनाशंमुनिवंद्यम् ॥ योगिध्येयंयोगविधानपरिपूर्णवंदेरामंरंजितलोकरमणीयम् ॥ ३ ॥ भावाभावप्रत्ययहीनंभवमुख्यैर्भोगासक्तैरर्चितपादांबुजयुग्मम् ॥ नित्यंशुद्धं बुद्ध मनंतंप्रणवाख्यंवंदेरामंवीरमशेषासुरदावम् ॥ ४ ॥ त्वंमेनाथोनाथितकार्याखिलकारी मानार्तातोमाधवरूपोऽखिलधारी ॥ भक्तयागम्योभावितरूपोभवहारीयोगाभ्यासैर्भावितचेतः सहचारी ॥५॥ त्वामाद्यंतंलोकततीनांपरमीशंलोकानांनोलौकिकमानैरधिगम्यम्॥ भक्ति श्रद्धाभाव समेतैर्भजनीयं वंदेरा मंसुंदरमिंदीवरनीलम् ॥ ६ ॥ कोवाज्ञातुंत्वामतिमानंगत मानमानासक्तोमाधवशक्तोमानमान्यम्॥ वृंदारण्येवंदितवृंदार कवृंदवंदेरामंभवमुखवंद्यंसुखकंदम् ॥ ७ ॥ नानाशास्त्रैर्वेद कदंबैः प्रतिपाद्येनित्यानंदनिर्विषयज्ञानमनादिम् ॥ मत्सेवार्थमानुषभावप्रतिपन्नं वंदे राम मरकतवर्ण मथुरेशम् ॥ श्रद्धायुक्तोयः पठतीमंस्तवमाधंब्राह्मं ब्रह्मज्ञान विधानभुविमर्त्यः ॥ रामंश्यामंकामितकामप्रदमीशंध्यात्वाध्यातापातकजा लैर्विगतः स्यात्

इतःपरंत्वच्चरणारविन्दयोः स्मृतिःसदामेऽस्तुभवोपशान्तये || त्वन्नाम संकीर्तन मेववाणी करोतु मे कर्णपुत्वदीयम् ॥ १ ॥ कथामृतंपातुकरद्वयंते पादारविन्दार्चन मेवकुर्यात् । शिरश्चतत्पादयुगप्रणामंकरोतुनित्यंभवदीयमेव ॥ २ ॥ देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा । त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ ३ ॥ न जाने कर्म यत्किचिन्ना पिलौकिक वैदिके । न निषेधविधी विष्णो तवदासोऽस्मिकेवलम् ॥ ४ ॥ तव० ॥ तव०॥