पान:वैदिक तत्वमीमांसा.pdf/287

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १८३ षयोः इशिता । न तावत् संयोग-लक्षणः संबन्ध संर्भवति, प्रधान–पुरुष-ईश्वराणां सर्वगतत्वात् निरैवयवत्वात् च । न अपि समवाय-लक्षणः संबन्धः, आश्रय-आश्रयभाव-अनिरूपणात् । न अपि अन्यः कश्चित् कार्य-गम्यः संबन्धः शक्यते कल्पयितुं, कार्य-कारण-भावस्य एव अद्यापि असिद्धत्वात् ।....तस्मात् अनुपपन्ना सांख्य-योगवादिनां ईश्वर–कल्पना । एवं अन्यासु अपि वेद-बाह्यासु ईश्वर-कल्पनासु यथासंभवं असामंजस्यं योजयितव्यम् ॥ ( शारीरकभाष्य, २॥२॥३८) ह्मणजे, हे मत सयुक्तिक कां नव्हे. या विषयीं दुसरे कारण असे की, प्रधान आणि

(१) अंस्ति चेत् तर्हि सः संयोगः वा समवायः वा योग्यता वा इति विकल्प्य आद्यं दूषयति- न तावत्' इति ॥ ( आनंदगिरि ) । (२) अप्राप्य-प्राप्तिः अव्याप्य-वृत्तिः च संयोगस्य स्वरूपम् । तत्र प्रधानादिषु अप्राप्त-प्राप्तेः अभावे हेतुं आह-“प्रधान' इति । अव्याप्य-वृत्तित्व-अभावे अपि हेतु आह-निरवयवत्वात्” इति । (आनंदगिरि )

(३) न अपि समवाय-लक्षणः । सः हि अयुत-सिद्धानां आधार-आधेय-भूतानां इह-प्रत्यय-हेतुः संबन्धः इति अभ्युपेयते । न च प्रधान-पुरुष-ईश्वराणां मिथः अस्ति आधार-आधेयभावः इत्यर्थः ॥.( वाचस्पति) | ( ४ ) कार्य- बलात् प्रेरण-योग्यत्व-आख्यः संबन्धः कल्प्यतां इत्यतः आह-* न अपि अन्यः' इति । ईश्वर–प्रेरित-प्रधान-कार्ये जगत् इति सिद्ध चेत् संबन्ध-कल्पना स्यात् । तत् च अद्यापि असिद्ध इत्यर्थः ॥ ( गोंविंदानंद ) प्रधान कार्यत्वस्य जगतः असिद्धत्वात् प्रधान-ईश्वरयोः संबन्धस्य कार्य-कल्प्यस्य अयोगातू इत्यर्थः ॥ ( आनंदगिरि)