पान:वैदिक तत्वमीमांसा.pdf/271

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य २६७ मनसि आत्मनः संयोगे सति आत्मगुणः प्रयत्नः जायते । एतेन अभिघातादि अपि दृष्टं निमित्तं प्रत्याख्यातव्यम् । सर्ग-उत्तर-कालं हि तत् सर्वं न आद्यस्य कर्मणः निमित्तं संभवति । अर्थ अदृष्टं आद्यस्य कर्मणः निमित्तं इति उच्येत, तत् पुनः आत्म-समवाय वा स्यात् अणु-समवायि वा । उभयथा अपि न अदृष्ट-निमित्तं अणुषु कर्म अवकल्पेत, अदृष्टस्य अचेतनत्वात् । न हि अचेतनं चेतनेन अनधिष्ठितं स्वतंत्र प्रवर्तते प्रवर्तयति वा इति सांख्यप्रक्रियायां अभिहितम् । आत्मनः च अनुत्पन्न-चैतन्यस्य तस्यां अवस्थायां अचेतनत्वात् । आत्म-समवायित्व-अभ्युपगमात् च न अदृष्टं अणुषु कर्मणः निमित्तं स्यात् असंबन्धात् । अदृष्टवता पुरुषेण अस्ति अणून संबन्धः इति । चेत् । संबन्ध-सातत्यात् प्रवृत्ति-सातय-प्रसंगः, नियामक–अन्तर-अभावात् । तत् एवं नियतस्य कस्यचित् । कर्म-निमित्तस्य अभावात् , न अणुषु आद्यं कर्म स्यात् ।। कर्म-अभावात् तत्-निबन्धनः संयोगः न स्यात् । संयोगअभावात् च तत् निबन्धनं द्वि-अणुकादि कार्य-जातं न स्यात् ।....यथा च आदि-सर्गे निमित्त-अभावात् संयोग ( १ ) अचेतनत्वे अपि कुतः न कर्म-निमित्तता इति आशंक्य, स्वतंत्रं चेतन-अधष्ठितं वा तत् तथा इति विकल्प्य, आद्यं निराह* न हि' इति ॥ ( आनंदगिरि ) | ( २ ) जीव-अधिष्ठितं अदृष्टं निमित्तं अस्तु इत्यतः आह • आत्मनः च' इति । अचेतनत्वात् न अधिष्ठातृत्वं इति शेषः ॥ ( गोविंदानंद ) आत्मनः च क्षेत्रज्ञस्य अनुत्पन्न-चैतन्यस्य इत्यर्थः ॥ (वाचस्पति)