पान:वैदिक तत्वमीमांसा.pdf/247

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

૨૪૨ वैदिक तत्त्वमीमांसा अनुमानाच्या व श्रुतीच्या आधाराने आह्मी पूर्वीच प्रतिपादन केले आहे.' चैतन्यरहित वस्तू मध्ये स्वतंत्रपणे स्वभावतःच प्रवृत्ति उत्पन्न होते असे सिद्ध करण्या करितां सांख्यांनी जे दुसरे दृष्टांत दिले आहेत ते देखील ( शंकराचार्यांच्या मते ) बरोबर नाहींतः-स्यात् एतत् । यथा तृण-पल्लव–उदकादि निमित्त-अन्तर–निरपेक्षं स्वभावात् एव क्षीरादि-आकारेण । परिणमते, एवं प्रधानं अपि महत्-आदि-आकारेण परिणंस्यते इति । कथं च निमित्त-अन्तर-निरपेक्षं तृणादि इति गम्यते । निमित्त-अन्तर–अनुपलंभात् । यदि हि किंचित् निमित्त उपलभेमहि, ततः यथाकामं तेन तृणादि उपादाय क्षीरं संपादयेमहि । न तु संपादयामहे ।। तस्मात् स्वाभाविकः तृणादेः परिणामः । तथा प्रधानस्य अपि स्यात् इति ।। अत्र उच्यते । भवेत् तृणादिवत् स्वाभाविकः प्रधानस्य अपि परिणामः, यदि तृणादेः अपि स्वाभाविकः परिणामः अभ्युपगम्येत । न तु अभ्युपगम्यते, निमित्त-अन्तरउपलब्धेः । कथं निमित्त-अन्तर–उपलब्धिः । अन्यत्र अभावात् । धेन्वा एव हि उपभुक्तं तृणादि क्षीरीभवति, न प्रहीणं अनडुहादि-उपयुक्तं वा । यदि हि निर्निमित्तं एतत् । स्यात् धेनु-शरीर संबन्धात् अन्यत्र अपि तृणादि क्षीरीभवेत् । न च यथाकामं मानुषैः न शक्यं संपादयितुं इति एतावता निनिमित्तं भवति । भवति हि किंचित् कार्य ( १ ) धेन्वादि निमित्त-अन्तरं अस्ति इति सिद्धान्तयति ।। ( गोविंदानंद )