पान:वैदिक तत्वमीमांसा.pdf/241

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२३६ वैदिक तत्त्वमीमांसा दृष्टा । किं पुनः अत्र युक्तम् । यस्मिन् प्रवृत्तिः दृष्टा तस्य सा, उत यत्-संप्रयुक्तस्य दृष्टा तस्य सा इति । ननु यस्मिन् दृश्यते प्रवृत्तिः तस्य एव सा इति युक्तं, उभयोः। प्रत्यक्षवात् । न तु प्रवृत्ति-आश्रयत्वेन केवलः चेतनः रथादिवत् प्रत्यक्षः । प्रवृत्ति-आश्रय-देहादि-संयुक्तस्य एव तु चेतनस्य सद्भाव-सिद्धिः, केवल–अचेतन-रथादि-वै- लक्षण्यं जीवत्-देहस्य दृॐ इति । अतः एव च प्रत्यक्षे देहे सति चैतन्य-दर्शनात् , असति च अदर्शनात् , देहस्य एत्र चैतन्यं अपि इति लोकायतिकाः प्रतिपन्नाः । तस्मात् अचेतनस्य एवं प्रवृत्तिः इति । तत् अभिधीयते । न ब्रूमः यस्मिन् अचेतने प्रवृत्तिः ( १ ) यस्मिन् अचेतने रथादौ प्रवृत्तिः दृष्टा तस्य एव सा, न चेतनः तत्र हेतुः इति किं सांख्य-मतं साधु । उत येन चेतनेन अश्वादिना संयोगात् अचेतनस्य प्रवृत्तिः तत्-प्रयुका सा इति वेदान्ति-मतं वा साधु, इति प्रश्न-अर्थः ॥ ( गोविंदानंद ) ( २ ) तत्र सांख्यः ब्रूते- न नु' इति ॥ ( आनंदगिरि ) उभयोः=प्रवृत्ति-तत्-आश्रययोः ।। ( ३ ) आत्मनः अप्रत्यक्षत्वे कथं सिद्धिः, तत्र आह- प्रवृत्तिः । | इति । जीवत्-देहस्य रथादिभ्यः वैलक्षण्यं प्राणादि-सत्त्वं लिंग दृष्टं इति कृत्वा चेतनस्य सिद्धिः इति अन्वयः ॥ ( गोविंदानंद ) अनुमान-सिद्धस्य चेतनस्य न प्रवृत्ति-आश्रयता इति दर्शयितुं एवकारः ॥ ( आनंदगिरि ) ( ४ ) केवल-चेतनः न प्रवृत्ति-आश्रयतया प्रत्यक्षः भवति इति अन्न लिंगं आह-* अतः एव ' इति । केवलः चेतनः यतः न अक्षाभवति, अतः एव लोकायतिकानां विवादः । अन्यथा व्यतिरि-आत्मनि विवादः न स्यात् इत्यर्थः ॥ ( आनंदगिरि ) ___(५) प्रवृत्तिं प्रति आश्रयत्वं अचेतनस्य एव इति उक्तं अगा। वतनस्य प्रयोजकत्वं सिद्धान्ती साधयति- तत् अभिधीयत कृत्य चेतनस्य प्रयाज इति । ( गोविंदानंद )