पान:वैदिक तत्वमीमांसा.pdf/228

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

૨૨૨ शंकराचार्य आणि रामानुजाचार्य अनेकेभ्यः कार्य-उत्पत्ति-अभ्युपगमे कारण-अनवस्थानात् । तन्तु-प्रभृतयः हि अवयवाः स्व-अंशभूतैः षभिः पाश्चैः परस्परं संयुज्यमानाः अवयविनं उत्पादयन्ति । ते च तन्तु–आदयः स्व-अवयवैः तथाभूतैः उत्पाद्यन्ते । ते च तथाभूतैः स्व-अवयवैः, इति परमाणुभिः अपि स्वकीयैः षभिः पाश्चैः संयुज्यमानैः एव स्व-कार्यउत्पादनं अभ्युपेतव्यम् । अन्यथा प्रथिमा-अनुपपत्तेः । परमाणवः अपि अंशित्वेन स्व-अंशैः तथा एव उत्पाद्यन्ते, ते च स्व-अंशैः, इति न क्वचित् कारण-व्यवस्थितिः । अतः कारण-व्यवस्था-सिद्धि-अर्थ एकं द्रव्यं विविधविचित्र-परिणाम-शक्ति-युक्तं स्वयं अप्रच्युत-स्वरूपं एव महत्-आदि-अनन्त-अवस्था-आश्रयः कारणं आश्रयणीयम्। तत् च एकं कारणं गुण-त्रय-साम्यरूपं प्रधानं इति । तत्-कल्पन–हेतून् उपन्यस्यन्ति । ••••विचित्र संनिवेश तनु-भुवनादि कृत्स्नं जगत् । तत् च जगत् विचित्रसंनिवेशत्वेन कार्यभूतं तत्-सरूप-अव्यक्त-कारणकम् । कुतः । कार्यत्वात् । कार्यस्य हि सर्वस्य तत्-स्वरूपात् कारण-विशेषात् विभागः तस्मिन् एव अविभागः च दृश्यते । यथा घट-मुकुटादेः कार्यस्य तत्-सरूपात् मृद् सुवर्णादेः कारणात् विभागः तस्मिन् एव च अविभागः । अतः विश्वरूपस्य जगतः तत् सरूपात् प्रधानात् उत्पत्तिः, तस्मिन् एव लयः च, इति प्रधान कारणकं एवं जगत् । गुण-त्रय-साम्यरूपं प्रधानं एव जगत् - सरूपकारणं, सत्व-रजः- तमोमय-सुख-दुःख-मोह-आत्मकत्वात् जगतः । यथा च मृद्-आत्मनः घटस्य मृद्-द्रव्यं