पान:वैदिक तत्वमीमांसा.pdf/220

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

११४ वैदिक तत्त्वमीमांसा उक्तं शरीरे भावात् शरीर-धर्मः उपलब्धिः इति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु । उपलब्धिः भवति, असत्सु न भवति । न च एतावता प्रदीपादि-धर्मः एव उपलब्धिः भवति । एवं साति देहे उपलब्धिः भवति असति च न भवति, इति न देह -धर्मः भवितुं अर्हति । उपकरणत्व-मात्रेण अपि प्रदीपादिवत् देह-उपयोग-उपपत्तेः । न च अत्यन्तं देहस्य उपलब्धौ उपयोगः अपि दृश्यते । निचेष्टे अपि अस्मिन् देहे स्वप्ने नानाविध-उपलब्धैि–दर्शनात् । तस्मात् अनवद्यं देह-व्य- तिरिक्तस्य आत्मनः अस्तित्वम् ॥ ( शारीरकभाष्य, ३।३।। १४ ) ह्मणजे, “ या संबंधाने आह्मी असे ह्मणतों कीं, जीवात्मा देहाहून भिन्न ह्मणजे स्वतंत्र नाही, असे ह्मणणे बरोबर नव्हे. तो देहाहून भिन्न किंवा स्वतंत्र आहे असेच मानिले पाहिजे. कारण त्याचे अस्तित्व देहाच्या अस्तित्वा वर अवलंबून असत नाहीं. आणि जर देहाच्या विद्यमानतेच्या वेळी वर निर्दिष्ट केलेले आध्यात्मिक धर्म विद्यमान ( १ ) उपलव्धेः देह-अन्वय-व्यतिरेकौ न देह-धर्मत्व-सा- धुकौ, तत्-निमित्तत्वेन अन्यथा-सिद्धेः इति अधिकं आह- अपि च' इति ॥ ( गोविंदानंद ) | ( २ ) उपकरणत्वं अपि देहस्य उपलब्धौ न सिध्यति इति आह- न च ' इति । उपलब्धिः न देह-जन्या, तस्मिन् अव्याप्रियमाणे अपि सत्त्वात् अर्थ-अन्तरवत् । जागरे तु व्यंजक जनकतया कथूचित् उपयोगं अंगीकृत्य अत्यन्तं इति उक्तम् । स्वप्ने द्रष्टरि अहं पश्यामि इत्यादि-अबाधित–अध्यक्षस्य स्थूल-देहआकार-हीनस्य देह-अतिरिक्त-आत्म-विषयत्वात् न देहात्मवादसिद्धिः इति भावः ॥ ( आनंदगिरि )