पान:वैदिक तत्वमीमांसा.pdf/194

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१८८ वैदिक तत्त्वमीमांसा कश्चित् विशेषः अस्ति, येन बीजात् एवं अंकुरः जायते। क्षीरात् एवं दधि, इति एवं-जातीयकः कारण-विशेषअभ्युपगमः अर्थवान् स्यात् । निर्विशेषस्य तु अभावस्य कारणस्व-अभ्युपगमे, शश-विषाणादिभ्यः अपि अंकुरादयः जायेरन् । न च एवं दृश्यते । यदि पुनः अभावस्य अपि विशेषः अभ्युपगम्येत, उत्पलादीनां इव नीलत्वादिः, ततः विशेषवत्त्वात् एवं अभीवस्य भावत्वं उत्पलादिवत् प्रसज्येत । ने अपि अभावः कस्यचित् उत्पत्ति-हेतुः स्यात्, अभावत्वात्. एवं शश-विषाणादिवत् । अभावात् च भाव-उत्पत्तौ अभावअन्वितं एवै सर्वे कार्य स्यात् । न च एवं ईंश्यते । सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भाव-आत्मना एव उपलभ्यमानत्वात् । न च मृद्-अन्विताः शरावादयः भावाः तन्त्वादिविकाराः केनचित् अभ्युपगम्यन्ते । मृद्-विकारान् एव तु | (१) यदि बीज-अभावस्य अभाव-अन्तरात् विशेषः स्यात्, सदा विशेषवत्-अभाव द्वारा बीजात् एव अंकुरः इति लोकायतिकानां अभ्युपगमः अर्थवान् स्यात् । न सः अस्ति इति आह-येन’ इति ॥ ( गोविंदानंद ) (२) किंच अभाव--कारण--वादिना तस्य निर्विशेषत्वं सविशेवत्वं वा इष्टम् । आद्यं दूषयति-- निर्विशेषस्य' इति । ... द्वितीयं अनूय निरस्यति-- यदि' इति ॥ ( आनंदगिरि ) न हि अभावः विशिष्यते । विशेषण-योगे वा सः अपि भावः स्यात् ...॥ ( वाचस्पति ) ( ३ ) अभावस्य कारणत्वं उपेत्य उक्तम् । तत् एव अयुक्तं इति आह-- न अपि ' इति ॥ ( आनंदगिरि ) ( ४ ) कार्य--स्वभाव-आलोचनया अपि न अभावस्य कारणता इति आह--* अभावात् ' इति । यत् येन अनन्वितं न तत् तस्य कार्य, यथा हेम्न-अनन्वितः घटः न हेम्नः विक़ारः ॥ ( आनंदगिरि ) ।