पान:वैदिक तत्वमीमांसा.pdf/161

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य | १५७ ‘घटविषयक' हे विशेषण एकरूप ह्मणजे एकच आहे. ज्या प्रमाणे, क्षीरगंध आणि क्षीरस या उदाहरणांत गंध आणि रस या दोन विशेष्यां मध्ये भेद आहे, परंतु क्षीरविषयक हे विशेषण एकरूप झणजे एकच आहे, त्या प्रमाणे.' पुनः असे की:--विज्ञानं विज्ञानं इति अभ्युपगच्छता बाह्यः अर्थः स्तंभः कुड्यं इति एवं-जातीयकः कस्मात् न अभ्युपगम्यते इति वक्तव्यम् । विज्ञानं अनुभूयते इति चेत् बाह्यः अपि अर्थः अनुभूयते एव इति युक्तं अभ्युपगन्तुम् । अथ विज्ञानं प्रकाश-आत्मकत्वात् प्रदीपवत् स्वयं एवं अनुभूयते, न तथा बाह्यः अपि अर्थः, इति चेत् । अत्यन्त विरुद्धां स्वात्मनि क्रियां अभ्युपगच्छसि, अग्निः आत्मानं देहति इतिवत् । अविरुद्धं तु लोकप्रसिद्ध स्वात्म–व्यतिरिक्तेन विज्ञानेन बाह्यः अर्थः अनुभूयते इति न इच्छसि, अहो पाण्डित्यं महत् दर्शितम् । न च अर्थ-व्यतिरिक्तं अपि विज्ञानं स्वयं एव अनुभूयते, स्वात्मनि क्रिया-विरोधात् एव ।। ( १ ) ज्ञानवत् अर्थस्य अपि अनुभव-अविशेषात् स्वीकारः युक्तः इत्यर्थः ॥ ( गोविंदानंद ) | ( २ ) स्वविषयत्वात् ( ह्मणजे स्वसंवेद्यत्वात् ) विज्ञानं स्वीक्रियते, न अर्थः पर-ग्राह्यत्वात्, इति शंकते-' अथ विज्ञानं ' इति ॥ ( गोविंदानंद ) ( ३ ) ज्ञानं स्वसंवेद्य अर्थः न एवं, इति भेदं उपेत्य उक्तम् ।। इदानीं ज्ञानस्य न स्वसंवेद्यता इति आह- न च ' इति । खात्मनि कर्तरि कर्मत्वं गृहीत्वा क्रिया-स्वीकारे कर्तृत्वेन गुणत्वं कर्मत्वेन प्राधान्यं इति अपर्यायं एकस्यां क्रियायां एकस्य एव गुणत्वं प्राधान्यं च इति विरुद्धं आपद्येत । ततू न अर्थवत् ज्ञानं अपि स्वसंवेद्य इत्यर्थः ॥ ( आनंदगिरि )