पान:वैदिक तत्वमीमांसा.pdf/154

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

वैदिक तत्त्वमीमांसा ( १२ ) . या विज्ञानवादा संबंधाने शंकराचार्यांचे मत असेः–एवं प्राप्ते ब्रूमः । न खलु अभावः बाह्यस्य अर्थस्य अध्यवसातुं शक्यते । कस्मात् । उपलब्धेः । उपलभ्यते हि प्रतिप्रत्ययं बाह्यः अर्थः स्तंभः कुड्यं घटः पटः इति । न च उपलभ्यमानस्य एव अभावः भवितुं 'अर्हति । यथा हि कश्चित् भुजानः भुजि-साध्यायां तृप्तौ स्वयं अनुभूयमानायां एवं ब्रूयात् न अहं मुंजे न वा तृप्यामि इति, तद्वत् इन्द्रिय- संनिकर्षेण स्वयं उपलभमानः एव बाह्य अर्थ न अहं उपलभे न च सः अस्ति इति ब्रुवन् कथं उपादेयवचनः स्यात् ।। ननु न अहं एवं ब्रवीमि न कंचित् अर्थं उपलभे इति, किंतु उपलब्धि-व्यतिरिक्तं न उपलभे इति ब्रवीमि । बाढं एवं ब्रवीषि निरंकुशत्वात् ते तुण्डस्य । न तु युक्ति-उपेतं ब्रवीषि । यतः उपलब्धि व्यतिरेकः | ( १ ) उपलभ्यमानं अपि शुक्ति-रजतादिवत् मिथ्या इति आशंक्य, अवाधात् मा एवं इति आह-' न च ' इति ॥ ( आनंदगिरि) ( २ ) उपलब्धिः एव असिद्धा इति आशंक्य, सर्वथा अनुपलब्धिः वा ज्ञान-अतिरिक्तत्वेन वा इति विकल्प्य, आये दोष आह* यथा' इति ॥ ( आनंदगिरि ) | ( ३ ) द्वितीयं अवलंबते- ननु' इति ॥ ( आनंदगिरि ) ( ४ ) ज्ञान-ज्ञेययोः विषयि-विषय-भावेन भेदस्य साक्षि-प्र- त्यक्ष-सिद्धत्वात् , प्रत्यक्ष-विरुद्ध अभेद-अभिधानं इति आह* बाढं ' इत्यादिना ॥ ( गोविंदानंद )