पान:वैदिक तत्वमीमांसा.pdf/145

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १४१ अपि च अनुभवमात्रेण साधारण-आत्मनः ज्ञानस्य जायमानस्य यः अयं प्रतिविषयं पक्षपातः,-स्तंभज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानं इति,-न असौ ज्ञानगत-विशेष अन्तरेण उपपद्यते, इति अवश्यं विषय-सारूप्यं ज्ञानस्य अंगीकर्तव्यम् । अंगीकृते च तस्मिन् विषय-आकारस्य ज्ञानेन एव अवरुद्धत्वात् अपार्थिका बाह्य-अर्थ-सद्भावकल्पना । अपि च सहोपलंभनियमात् अभेदः विषय-विज्ञानयोः आपतति । न हि अनयोः एकस्य अनुपलंभे अन्यस्य उपलंभः अस्ति । न च एतत् स्वभाव-विवेके युक्तं, प्रतिबन्ध-कारण-अभावात् । तस्मात् अपि अर्थ-अभावः । स्वप्नादिवत् च इदं द्रष्टव्यम् । यथाहि स्वप्न—माया-मरीचिउदक-गन्धर्व–नगरादि-प्रत्ययाः, विना एव बाह्येन अर्थेन, ग्राह्य-ग्राहक-आकाराः भवन्ति, एवं जागरित गोचराः अपि स्तंभादि-प्रत्ययाः भवितुं अर्हन्ति इति अवगम्यते । प्रत्ययत्व-अविशेषात् ।। कथं पुनः असति बाह्य--अर्थे प्रत्यय–वैचित्र्यं उपपद्यते । वासना–वैचित्र्यात् इति आह । अनादौ हि संसारे बीजअंकुरवत् विज्ञानानां वासनानां च अन्योन्य-निमित्त-नैमित्तिक-भावेन वैचित्र्यं न विप्रतिषिध्यते । अपि च अन्वयव्यतिरेकाभ्यां वासना-निमित्तं एव ज्ञान-वैचित्र्यं इति अवगम्यते । स्वादिषु अन्तरेण अपि अर्थ वासना-निमित्तस्य ज्ञान-वैचित्र्यस्य उभाभ्यां अपि आवाभ्यां अभ्युपगम्यमानत्वात्। अन्तरेण तु वासनां अर्थ-निमित्तस्य ज्ञान-वैचित्र्यस्य मया अनभ्युपगम्यमानत्वात् । तस्मात् अपि अभावः बाह्यअर्थस्य इति ।। ( शारीरकभाष्य, २।३।२८ ) ह्मणजे ' वि