याच अर्थाचा सामवेदाच्या तांड्य ब्राह्मणांतील अनुवाक एकाष्टकायां दीक्षेरन् ॥ १ ॥ एपा वै संवत्सरस्य पत्नी यदेकाष्टकैतस्यां वा एता रात्रिं वसति साक्षादेव तत्संवत्सरमारभ्य दीक्षन्ते ॥ २ ॥
तस्य सा निर्या यदपोऽनभिनन्दन्तोऽभ्यवयन्ति ॥ ३ ॥
विच्छिन्नं वा एते संवत्सरस्याभिदीक्षन्ते य एकाष्टकायां दी- क्षन्तेऽतनामानावृतू भवतः ॥ ४ ॥ आर्त वा एते संवत्सरस्याभिदीक्षन्ते येंऽतनामानावृतू अभि- दीक्षन्ते ॥ ५ ॥ तस्माद काष्टकायां न दीक्ष्यम् ।। ६ ।। फाल्गुने दीक्षैरन् ॥ ७॥ मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी मुखत एव तत्संवत्सरमारभ्य दीक्षन्ते ॥ ८ ॥
तस्य सा निर्या यत्सम्मेधे विषुवान्संपद्यते ।। ९ ।।
चित्रापूर्णमासे दीक्षैरन् ।। १० ॥
चक्षुर्वा एतत् संवत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मु- खत एव तत्संवत्सरमारभ्य दीक्षन्ते तस्य न निर्यास्ति ॥ ११ ॥
चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन् ॥ १२ ॥
तेषामेकाष्टकायां ऋयः संपद्यते तनैकाष्टकां न संवद कुर्वन्ति ॥ १३ ॥